SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ प्पदेसेसु तिब्वतरा वेदणा कज्जन्भासत्तातो सेसेसु मंदतरा । एवं सहचरिएम वि जीवप्पदेसेसु वीरियविसमता ।। जहा वा समाणलद्धियाणं इंदियाणं कम्हि वि उवउत्तस्स तंमि चेव तिव्वं विपणाणं होति ण सेसेसु इंदिएसु विजमाणखयोवसमलद्धिएसु वि तहेहावि समाणलद्धियाणं पदेसाणं विसमपरिप्फंदत्ता दिट्ठा । तेण कारणेण | परोप्परसंबद्धाणं सहचलियाणं कजब्भासत्ताए विसमचेट्टा पदेसाणं ति णत्थि कोवि विरोधो॥४॥ । (म०)-'परिणामेति'-परिणमनं परिणामः, अन्तर्भूतणिजन्तात् घञ्प्रत्ययः (श्रीमल० कृ०५-३) परिणामापादनमित्यर्थः । आल|म्ब्यत इत्यालम्बनम्, भावेऽनद् (श्रीमल० कृ०६-२) । गृहीतिग्रहणम् । तेषां साधनं साध्यतेऽनेनेति साधनं योगसंत्रं वीर्यम्, करगणेऽनट् (श्रीमल० कृ० ६-४)। तथाहि-तेन वीर्यविशेषेण योगसंज्ञकेनौदारिकादिशरीरमायोग्यान् पुद्गलान् प्रथमतो गृह्णाति, गृहीत्वा || | चौदारिकादिरूपतया परिणमयति । तथा प्राणापानभाषामनोयोग्यान् पुद्गलान् प्रथमतो गृह्णाति, गृहीत्वा च प्राणापानादिरूपतया | परिणमयति । परिणमय्य च तनिसर्गहेतुसामर्थ्य विशेषसिद्धये तानेव पुद्गलानवलम्बते । यथा मन्दशक्तिः कश्चिनगरे परिभ्रमणाय | यष्टिमवलम्बते । ततस्तदवष्टम्भतो जातसामर्थ्य विशेषः सन् तान् माणापानादिपुद्गलान् विसृजतीति परिणामालम्बनग्रहणसाधनं वीर्यम् । 'तेन च वीर्येण योगसंबकेन मनोवाकायावष्टम्भतो जायमानेन । 'लद्धनामतिगं' ति लब्धं नामत्रिकम् । तद्यथा-मनोयोगो वाग्योगः | काययोग इति । तत्र मनसा करणभृतेन योगो मनोयोगः, वाचा योगो वाग्योगः, कायेन योगः काययोगः । स्यादेतत्-सर्वेषु जीवपदेशेषु तुल्यक्षायोपशमिक्यादिलब्धिभावेऽपि किमिति क्वचित्तभृतं क्वचित् स्तोकं क्वचित्स्तोकतरमित्येवं वैषम्येण वीर्यमुपलभ्यत इत्यत आह-'कजे'त्यादि, यदर्थ चेष्टते तत्कार्यम्, तस्याभ्याशः, अभ्यशनमभ्याशः, 'अशू' व्याप्तावित्यस्याभिपूर्वस्य धजन्तस्य
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy