SearchBrowseAboutContactDonate
Page Preview
Page 918
Loading...
Download File
Download File
Page Text
________________ EEDICINEMY || भागोदीरणा त्रिधा । तद्यथा-अनादिधुंवाऽधुवा च । तथाहि-अनयोरुत्कृष्टानुभागोदीरणा सयोगिकेवलिनि । सा च सादिरध्रुवा च । शेष कालं त्वनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । तथा वेदनीयेऽनुत्कृष्टा, मोहनीये चाजघन्यानुभागोदीरणा चतु प्रकारा । तद्यथा-सादिरनादिरधुवा ध्रुवा च । तथाहि-उपशमश्रेण्यां सूक्ष्मसंपरायगुणस्थाने यबद्धं सातवेदनीयं तस्य सर्वार्थसिद्धि | संप्राप्तौ प्रथमसमये योदीरणा प्रवर्तते सोत्कृष्टा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा । सा चाप्रमत्तगुणस्थानकादौ न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । तथा मोहनीयस्य जघन्यानुभागोदीरणा सूक्ष्मसंपरायस्य आपकस्य समयाधिकावलिकाशेषायां स्थितौ भवति, सा च सादिः । तदनन्तरसमये चाभावादधुवा । शेषकालं त्वजघन्या । सा चोपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुन१२ रनादिः, ध्रुवाधुवे पूर्ववत् । 'तस्सेसगा य दुविगप्पति-तच्छेषा उक्तव्यतिरिक्ता विकल्पाः द्विविकल्पा-द्विपकारा ज्ञातव्याः। तद्यथा सादयोऽध्रुवाश्च । तथाहि-चतुर्णा घातिकर्मणामुत्कृष्टाऽनुत्कृष्टा चानुभागोदीरणा मिथ्यादृष्टौ पर्यायेण प्राप्यते, ततो दे अपि साद्यध्रुवे । जघन्या च प्रागेव भाविता । तथा नामगोत्रवेदनीयानां जघन्याऽजघन्या चानुभागोदीरणा मिथ्यादृष्टौ पर्यायेण लभ्यते । ततो व अपि साद्यध्रुवे । उत्कृष्टा च प्रागेव भाविता। आयुषां तु सर्वेपि विकल्पाः सायधुवाः । सा च साद्यधुवताऽध्रुवोदीरणत्वादवसेया । | (उ०)-तदेवं कृता प्रत्ययप्ररूपणा, अथ साधनादिपरूपणा कर्तव्या, सा च द्विधा-मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वनाह-मोहनीयरहितानां त्रयाणां घातिकर्मगामजघन्यानुभागोदीरणा त्रिविधा-अनादिर्बुवाऽध्रुवा चेति । एषां हि क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ जघन्यानुभागोदीरणा भवति, सा च सादिरध्रुवा च । शेषकालं त्वजघन्या DISADSOD ब
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy