________________
कर्मप्रकृतिः)
॥७६॥
सा चानादिधुवोदीरणेति कृत्वा, ध्रुबाऽधुवे अभव्यभव्यापेक्षया । तथा द्वयोर्नामगोत्रयोरनुत्कृष्टानुभागोदीरणा त्रिविधा - अनादिर्भुवाऽध्रुवा | चेति । अनयोर्द्युत्कृष्टानुभागोदीरणा सयोगिकेवलिनि, सा च सादिरधुवा च शेषकालं त्वनुत्कृष्टा, सा चानादिधुवोदीरणत्वात्, ध्रुवाधुवे प्राग्वत् । तथा वेदनीयेऽनुत्कृष्टा, मोहनीये चाजघन्यानुभागोदीरणा सादिरनादिरध्रुवा ध्रुवा च । तथाहि -उपशमश्रेण्यां सूक्ष्मसंपरायगुणस्थाने यबद्धं सात वेदनीयं तस्य सर्वार्थसिद्धविमानप्राप्तौ प्रथमसमये योदीरणा प्रवर्तते सोत्कृष्टा, सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा, सा चाप्रमत्तगुणस्थानादौ न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाधुवे प्राग्वत् । तथा मोहनीयस्य जघन्यानुभागोदीरणा सूक्ष्मसंपरायक्षपकस्य समयाधिकावलिकाशेषायां स्थितौ, सा च सादिः, तदनन्तरसमये चाभावादधुवा, शेषकालं चाजघन्या, सा चोपशान्तमोहगुणस्थाने न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानम प्राप्तस्यानादिः, ध्रुवाधुवे प्राग्वत् । तच्छेषा उक्तव्यतिरिक्ता भेदाः सादयोऽधुवाश्चेति द्विविकल्पाः । तथाहि चतुर्णां घातिकर्मणामुत्कृष्टानुत्कृष्टे अनुभागोदीरणे मिथ्यादृष्टौ पर्यायेण प्राप्यमाणत्वात्साद्यध्रुवे, जघन्या चाजघन्यावसरे एव भाविता । तथा नामगोत्र वेदनीयानां जघन्याजघन्ये अनुभागोदीरणे मिथ्यादृष्टौ पर्यायेण प्राप्यमाणत्वात् साद्यध्रुवे, उत्कृष्टा चानुत्कृष्टावसरे एव भाविता । आयुषां तु सर्वेऽपि विकल्पा अध्रुवोदीरणत्वादेव सायवाः ॥५४-५५।।
इदाणिं उत्तरपगतीण सादियअणादियपरूवणा भण्णइ
मउलहुगाणुक्कोसा चउव्विहा तिण्हमवि य अजहन्ना । णाइगधुवा य अधुवा वीसाए होयणुक्कोसा ॥ ५६ ॥
अनुभागोदीरणा
11-9811