________________
SECONDEEDSIC
त-निश्चयेनोदीरयन्ति ता भवनिमित्ता-भवप्रत्ययोदीरणा इति भावः। तत्र नरकमवप्रत्यया नरकत्रिकस्योदीरगा, देवभवप्रत्यया देव. | त्रिकस्य, तिर्यग्भवप्रत्यया तिर्यत्रिकाद्यजातिचतुष्टयस्थावरसूक्ष्मसाधारणातयनाम्नां, मनुष्यभवप्रत्यया मनुष्यत्रिकस्य । शेषा एता
भ्यो विंशतिप्रकृतिभ्यो व्यतिरिक्ताः परिणामप्रत्ययोदीरणाः । ताश्च ध्रुवोदया एव, यतः सती विद्यमाना सोदीरणा सर्वेषु भवेषु, | सा चैतांसामुदीरणा निर्गुणपरिणामा द्रष्टव्येति । न चैतदपि विरुद्धं, विपक्षाभेदेनेथमप्युक्तेयुक्तत्वादिति । किं च सर्वा अपि प्रकृतयो यथायोगं भव एवोदीर्यन्ते, तिर्यग्गतियोग्यास्तिर्यग्भवे, मनुष्यगतियोग्या मनुष्यभवे, नरकगतियोग्या नरकभवे, देवगतियोग्याश्च देवभवे इत्यतः सर्वा अपि भवप्रत्ययोदीरणा । यद्वा सर्वा अपि प्रकृतीस्तत्तत्परिणामवशेन प्रभूतरसाः सतीरल्परसाः कृत्वाऽल्परसाश्च अनुभागोदीरणायां प्रत्ययप्ररूपणा।
सतीः प्रभूतरसाः कृत्वोदीरयन्ति सर्वेऽपि जीवा इति
सर्वा अपि प्रकृतयः परिणामप्रत्ययोदीरणा वेदितप्रत्ययः (तस्य भेदस्थापना)
व्याः। उक्तं च-'भवपच्चइया सव्वा तहेव परिणाम( सकाषायिकोऽकाषायिको वा )
पच्चइया' तस्मादत्र विचित्रोक्तौ विवक्षाभेद एव
शरणमिति भावनीयम् ॥५३॥ परिणामकृतः
भवकृतः
सगुणपरिणामप्रत्ययः
निर्गुणपरिणामप्रत्ययः