SearchBrowseAboutContactDonate
Page Preview
Page 913
Loading...
Download File
Download File
Page Text
________________ अनुभागादीरणा (उ०)-तीर्थकरं घातिकर्माणि च पञ्चविधज्ञानावरणनवविधदर्शनावरणनोकषायवजमोहनीयपश्चविधान्तरायरूपाणि अनुभागोदी- कर्मप्रकृतिः रणामधिकृत्य तिर्यमनुष्याणां परिगामप्रत्ययानि । परिणामो ह्यन्यथाभावनयनम् । तत्र तिर्यश्चो मनुष्या वा गुणप्रत्ययेनान्यथा बद्धा अप्यन्यथा परिणमय्योदीरयन्तीत्येता एकोनचत्वारिंशत्प्रकृतय उदीरगायां गुणपरिगामप्रत्यया इति भावः । भवप्रत्यया आह-'सेसा ॥७३॥ । उ'इत्यादि-शेषाः प्रकृतयः सातासातवेदनीयायुश्चतुष्टयगतिचतुष्टयजातिपश्चकौदारिकसप्तकसंहननषदकानाद्य संस्थानपञ्चककर्कशगुरुस्प१५ र्शानुपूर्वीचतुष्टयोपघातातपोच्छ्वासाप्रशस्तविहायोगतित्रसस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तसाधारणदुर्भगदुःस्वरानादेयायशःकीर्तिनिर्माणनी चैत्ररूपाः षट्पश्चाशत्संख्या अनुभागोदीरणामधिकृत्य भवप्रत्यया वेदितव्याः, एतासामनुभागोदीरणाया गुणप्रत्ययत्वाभावेन भवप्रत्ययत्वात् । तथा पूर्वोक्ता अपि प्रकृतयः पूर्वोक्तशेषाणां प्रागुक्ततिर्यङ्मनुष्यव्यतिरिक्तानां भवप्रत्ययोदीरणा ज्ञातव्याः । तथाहिदेवनारकैबतरहितैश्च तिर्यङ्मनुष्यनवानां नोकषायाणां पश्चानुपूर्व्या -उत्कृष्टानुभागस्पर्धकादारभ्येत्यर्थः, असंख्येया अनुभागा उदीयन्ते भवप्रत्ययादेव । तथा वैक्रियसप्तकतैजससप्तकवर्णपञ्चकगन्धद्विकासपचकस्निग्धरूक्षशीतोष्णस्पर्शस्थिरास्थिरशुभाशुभागुरुलघुप्रकृतीनां देवा नारकाश्चानुभागं भवप्रत्ययादेवोदीरयन्ति । तथा समचतुरस्रसंस्थानस्य भवधारणीये शरीरे वर्तमाना देवा भवप्रत्ययादनु| भागोदीरणां कुर्वन्ति । मृदुलघुस्पर्शपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकनाम्नामुत्तरवैक्रियशरीरिणो विहाय शेषाणां भवप्रत्यया दनुभागोदीरणा प्रवर्तते । सुभगादेययशाकीत्युच्चैर्गोत्राणामनुभागोदीरगा गुणहीनस्य भवप्रत्यया, गुणवतां तु गुणप्रत्यया । तथा - सर्वेषां घातिकर्मणामनुभागोदीरणा देवनारकागां भवप्रत्यया । शेषभावना तु सुगमेति । पञ्चसंग्रह त्वेवमुक्तम्-'जा जम्मि भरे णियमा उदीरए ताओ भवणिमित्ताओ । परिणामपच्चयाओ सेसाओ सईससब्वत्थ ॥ (उ० क० ५२) अस्या अर्थ:-या प्रकृतीयस्मिन् भवे नियमा CARROSCGOOG ॥७३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy