SearchBrowseAboutContactDonate
Page Preview
Page 908
Loading...
Download File
Download File
Page Text
________________ AGROOHOROSARODE ततस्तासामपि प्रकृतीनामनुभागोदीरणा तिर्यअनुष्याणां परिणामप्रत्यया ॥५०॥ (उ०)-अथ प्रत्ययस्य प्ररूपणा कर्तव्या । प्रत्ययश्चोदीरणायाः कषायेण सहितोऽसहितो वा योगसंज्ञो वीर्यविशेषः । स च परिणामभवकृतभेदाद्विधा । तत्र परिणामप्रत्ययोऽपि द्विधा-सगुणानां निर्गुणानां च परिणत्या सगुणपरिणामकृतो निर्गुणपरिणामकृतचेति । एतदुभयभेदसंलुलितपरिणामप्रत्ययमधिकृत्याह-वैक्रियसप्तकं 'तेयगकम्म' ति-कार्मणसमभिव्याहृततैजसशब्देन तेजससप्तकं | गृह्यते, तथा वर्णपश्चक रसपञ्चकं स्निग्धरूक्षे शीतोष्णे स्थिरशुभे इतरे-अस्थिराशुभे अगुरुलघु च, एताः प्रकृतयोऽनुभागोदीरणामधिकृत्य नरतिर्यक्षु परिणामप्रत्ययाः । वैक्रियसप्तकं हि नरतिरश्चां गुगविशेषसमुत्थलब्धिपत्ययं, ततस्तदुदीरणापि तेषां गुणपरिणामप्रत्यया । तैजससप्तकादिप्रकृतयस्तु तिर्यग्नरैरन्यथाऽन्यथाविपरिणमय्योदीर्यन्त इति तासामपि प्रकृतीनामनुभागोदीरणा तिर्यड्नराणां परिणामप्रत्ययेति ॥५०॥ चउरंसमउयलहगापरघाउज्जोयइखगइसरा। पत्तेग तण उत्तरतणस दोसु वि [य] तण तडया ॥५१॥ (चू०)-समचउरंसं मउगं लहुगं पराघातं उज्जोवं पसत्थविहायगति सुस्सरं पत्तेयं एएसि अट्ठण्हं कम्माणं 'उत्तरतणुसु दोसु वित्ति-वेउब्वियं आहारगं च उप्पाएमाणस्स अट्ठ वि चउरंसादि परिणामपच्चइगा भवन्ति ।। पुव्वं अविजमाणा वि उप्पाएमाणस्स होति । 'तणू तइया वित्ति तइया तणू आहारसरीरं मणुयाणं गुणपरिणामपञ्चइयं भवति, अविजमाणं उप्पजइ ॥५१॥ (मलय०)-समचतुरस्रसंस्थानमृदुलघुपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकनामानोऽष्टौ प्रकृतय उत्तरतन्वोः-वैक्रियाहारक SWEDDIOSC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy