SearchBrowseAboutContactDonate
Page Preview
Page 904
Loading...
Download File
Download File
Page Text
________________ DOHORD तते तथा मनःपर्यायज्ञानावरणस्यापि द्रष्टव्या । तत्रोत्कृष्टा चतुःस्थाने, अनुत्कृष्टा तु चतु:स्थानके त्रिस्थानके द्विस्थानके वा । बन्धे तु | मनःपर्यायज्ञानावरणस्य चतुष्प्रकारोऽपि रसो भवति, शेषकर्मणां त्वेकस्थानकं विना त्रिप्रकारः । तानि च शेषकर्माण्यमृनि-केवल-४ ज्ञानावरणं केवलदर्शनावरणं निद्रापञ्चकं सातासातवेदनीये मिथ्यात्वं द्वादश कषाया षड् नोकषायाः नरकगत्यायुषी देवगत्यायुषी पञ्चन्द्रियजातिस्तैजससप्तकं वैक्रियसप्तकमाहारकसप्तकमाद्यान्त्यसंस्थाने वर्णपश्चकं गन्धद्विक रसपञ्चकं स्निग्धरूक्षमृदुलघुशीतोष्णरूपं | स्पर्शषट्कमगुरुलघूपघात पराघातं उच्छ्वासोद्योतविहायोगतिद्विकानि सचतुष्कं स्थिरादिषद्कमस्थिरादिषदकं निर्माणं तीर्थकरं गोत्रद्विकं चेति । एतासां चकोत्तरशतसङ्ख्यानां शेषकर्मप्रकृतीनामुत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानको रसोऽनुत्कृष्टां त्वधिकृत्य चतु:स्थानकस्विस्थानको द्विस्थानकश्च । तथा मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणसंज्वलनचतुष्टयनोकषायननकानामुत्कृष्टानुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टां त्वधिकृत्य देशघाती सर्वघाती च । उक्तं च-'देसोवघाइयाणं उदये देसो व | होइ सव्वो वा । देसोवघाइओ च्चिय अचक्खुसम्मत्तविग्घाणं" ॥ अत्रोदय इत्यसंप्राप्त्युदये उदीरणायामित्यर्थः । तथा केवलज्ञानावरणकेवलदर्शनावरणनिद्रापञ्चकमिथ्यात्वद्वादशकषायाणामुत्कृष्टामनुत्कृष्टां वाऽनुभागोदीरणामधिकृत्य रसः सर्वघात्येव । सातासातवेदनीयायुश्चतुष्टयसकलनामप्रकृतिगोत्रद्विकानामुत्कृष्टामनुत्कृष्टां वोदीरगामधिकृत्य रसः सर्वघातिप्रतिभागः। शुभाशुभत्वे विशेषमाह-मिथं. सम्यग्मिथ्यात्वं सम्यक्त्वमपि चानुभागोदीरणामधिकृत्य पापेषु-पापकर्मस्वधिगन्तव्यम् । अनयोर्घातिकतया रसस्याशुभत्वात् । शेषप्रकृतयस्तु यथा शतकग्रन्थेऽनुभागबन्धे शुभाशुभतयाभिहतास्तथावापि वक्तव्याः । अथ कीदृशेऽनुभागसत्कर्मणि वर्तमाने उत्कृष्टानुभा १ पञ्चसंग्रहउदीरणाकरण गा० ४२ GEONICARDISC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy