________________
कर्मप्रकृतिः ॥६८॥
तरशतसंख्यानां शेषकर्मणामुत्कृष्टामनुभागोदीरणामधिकृत्य चतुःस्थानको रसः, अनुत्कृष्टां त्वधिकृत्य चतुःस्थानकस्त्रिस्थानको द्विस्थानकश्च । तथा मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचक्षुरवधिदर्शनावरणानामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टां त्वधिकृत्य सर्वघाती देशघाती वा । केवलज्ञानावरणकेवलदर्शनावरणनिद्रापञ्चकमिध्यात्वद्वादशकपायाणामुत्कृष्टामनुत्कृष्टां वानुभागोदीरणामधिकृत्य रसः सर्वघाती । सातासात वेदनीयायुश्चतुष्टयस कल नाम प्रकृति गोत्रद्विकानामुत्कृष्टामनुत्कृष्टां वोदीरणामधिकृत्य रसः सर्वघातिप्रतिभागः । तथा चतुर्णा संज्वलनानां नवानां नोकषायाणामुत्कृष्टामनुभागोदीरणामधिकृत्य रसः सर्वघाती, अनुत्कृष्टां त्वधि| कृत्य सर्वघाती देशघाती वा प्रतिपत्तव्यः । इदानीमशुभप्रकृतिविषये विशेषमाह-'मीसग इत्यादि । अपि च सम्यग्मिथ्यात्वं सम्यक्त्वं चानुभागोदीरणामधिकृत्य पापेषु पापकर्मसु मध्येऽवगन्तव्यं, घातिस्वभावतया तयो रसस्याशुभत्वात् । शेषप्रकृतयस्तु यथा शतक|न्थेऽनुभागबन्धे शुभा अशुभाश्वोक्तास्तथाऽत्राप्यवगन्तव्याः । अथ कीदृशेऽनुभागसत्कर्मणि वर्तमान उत्कृष्टामनुभागोदीरणां करोति ? | उच्यते - 'छट्ठाण' इत्यादि । अनुभागसत्कर्मणः षट्स्थानपतितही नादपि उत्कृष्टानुभागोदीरणा प्रवर्तते । एतदुक्तं भवति यत्सर्वोत्कृष्टमनुभागसत्कर्म तस्मिन्ननन्तभागहीने वाऽसंख्येयभागहीने वा संख्येयभागहीने वा संरूपेयगुणहीने वाऽसंख्येयगुणहीने वाऽनन्तगुणहीने वोत्कृष्टानुभागोदीरणा प्रवर्तते । यतोऽनन्तानन्तानां स्पर्धकानामनुभागे क्षपितेऽपि अनन्तानि स्पर्धकानि उत्कृष्टरसान्यद्यापि तिष्ठन्ति, ततोऽनन्तभागेऽपि शेषे मूलानुभागसत्कर्मापेक्षयाऽनन्तगुणहीने उत्कृष्टानुभागोदीरणा लभ्यते, किं पुनरसंख्येयगुणहीनादावनुभागकर्मणीति ॥ ४७ ॥
( उ० ) – मनःपर्यायज्ञानं शेषः कर्मभिः समं वेदितव्यम् । अयं भावः - यथा शेषकर्मणामनुभागोदीरणा चतुस्त्रिद्विस्थानकविषया प्रत्र
Dharat
अनुभागोदीरणा
॥६८॥