SearchBrowseAboutContactDonate
Page Preview
Page 884
Loading...
Download File
Download File
Page Text
________________ रत्योः सातवत् , अरतिशोकयोरसातवद्भावना कार्या। असमाप्तमपर्याप्तकं नाम एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद्धृत्यापर्याप्तसंज्ञिपञ्चन्द्रियमध्ये समुत्पन्न उत्पत्तिप्रथमसमयादारभ्य च पर्याप्तकनाम बृहत्तरमन्तर्मुहूर्त कालं यावद्वध्नाति । ततः पुनरपि. अपर्याप्तकनाम बडुमारभते । ततो बन्धावलिकायाश्चरमसमये पूर्वबद्धस्यापर्याप्तकनाम्नो जघन्यां स्थित्युदीरणां करोति । संहननपश्च कस्य तु मध्ये वेद्यमानं संहननं मुक्त्वा शेषसंहननानां प्रत्येकं बन्धकालोऽतिदीपों वक्तव्यः । ततो वेद्यमानसंहननस्य बन्धे बन्धावलि. काचरमसमरे जघन्या स्थित्युद्दीरणा । नीचर्गोत्रमसातवद्वेदितव्यम् । तथा तेजस्कायिको वायुकायिको वा बादरः सर्वजघन्यस्थितिसत्कशर्मा पर्याप्तसंज्ञितिर्यपश्चेन्द्रियेषु मध्ये समुत्पन्नः । ततो बृहत्तरमन्तर्मुहूर्त कालं यावन्मनुजगतिं बध्नाति । तद्बन्धानन्तरं च तिर्यग्ग तिं बधुमारभते । ततो बन्धावलिकायाश्चरमसमये तस्यास्तिर्यग्गतेजघन्यां स्थित्युदीरणां करोति । एवं तिर्यगानुपूर्ध्या अपि वक्तव्यम् । नवरमपान्तरालगतौ तृतीयसमये जघन्या स्थित्युहीरणा वाच्या । अयश कीर्तिदुर्भगानादेयानां चासातस्येव भावना कार्या । केवलमिह प्रतिपक्षप्रकृतीनां यशःकीर्तिसुभगादेयानां बन्धो वाच्यः ॥३७॥ (उ०) वेदनीयस्य-सातासातयोनोंकषायागां-हास्यरत्यरतिशोकानां, शेषाणां वक्ष्यमाणत्वात्, असमाप्तस्यापर्याप्तकनाम्नः, संहननपञ्चकस्य वज्रर्षभनाराचवर्जानां पञ्चानां संहननानां नीचैर्गोत्रस्य तिर्यग्द्विकस्य-तिर्यग्गतितिर्यगानुपूर्वीरूपस्य तथाऽयशःकीर्तिदुर्भ२४ गानादेयानां सर्वसङ्कथयाऽष्टादशप्रकृतीनां संज्ञिपञ्चेन्द्रिये जघन्या स्थित्युदीरणा । भावना त्वियम्-एकेन्द्रियो जघन्यस्थितिसत्कर्मा | एकेन्द्रियभवादुद्धृत्य पर्याप्तसंज्ञिपश्चेन्द्रियमध्ये समुत्पन्न उत्पत्तिपथमसमयादारभ्य सातवेदनीयमनुभवन् बृहत्तरान्तर्मुहूतं यावदसातवेदनीयं बध्नाति, ततो भूयोऽपि सातं बधुमारभते, ततो बन्धावलिकान्तसमये पूर्वबद्धस्य सातवेदनीयस्य जघन्यस्थित्युदीरको GRESOICERCES -
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy