SearchBrowseAboutContactDonate
Page Preview
Page 881
Loading...
Download File
Download File
Page Text
________________ | जितस्थितिसत्कर्मापेक्षयाऽन्तर्मुहूर्तचतुष्टयबन्धावलिकान्यूनाया जघन्यां स्थित्युदीरणां करोति । बन्धावलिकाचरमसमयग्रहणे च का-13 कर्मप्रकृतिः 10/रणं प्रागेवोक्तम् । एवं त्रीन्द्रियचतुरिन्द्रियजात्योरपि भावना कार्या ॥३६॥ स्थित्युदी (उ०)-'एकेन्द्रिययोग्यानाम् । एकेन्द्रियाणामेवोदीरणां प्रति योग्यानामेकेन्द्रियजातिस्थावरसूक्ष्मसाधारणनामप्रकृतीनामेकेन्द्रियो ॥५७॥ रणा जघन्यस्थितिसत्कर्मा इतरा-एकेन्द्रियजातिप्रतिपक्षा द्वित्रिचतुरिन्द्रियपश्चेन्द्रियजातीः स्थावरमूक्ष्मसाधारणप्रतिपक्षाश्च-त्रसबादरप्रत्येकप्रकृतीबद्ध्वा तत एकेन्द्रियजात्यादिप्रकृतीबंधनन्नावलिका-बन्धावलिकामतिक्रम्य बन्धावलिकायाश्चरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युदीरणां करोति । इहेयं भावना-एकेन्द्रियः सर्वजघन्यस्थितिसत्कर्मा द्वीन्द्रियादिजातीः सर्वा अपि क्रमेण बद्धा तदनन्तरमेकेन्द्रियजाति बधुमारभते, तद्वन्धावलिकान्तसमये प्राग्बद्धाया एकेन्द्रियजातेजघन्यां स्थित्युदीरणां करोति । इह बन्धावलि कानन्तरसमये बन्धावलिकाप्रथमसमयबद्धानामपि लतानामुदीरणाप्राप्तेजघन्या स्थित्युदीरणा न प्राप्यते इति बन्धावलिकान्तसमयग्रहणम् । पतिपक्षभूतप्रकृतिबन्धोपादानं च तद्वन्धे यावान् कालः संभवति तावन्न्यूनतयैकेन्द्रियजातिस्थित्युदीरणायाः स्तोकतरत्वप्र| तिपत्तये, एवं स्थावरसूक्ष्मसाधारणेष्वपि प्रतिपक्षत्रसबादरप्रत्येकबन्धान्तरिततया भावन्म कर्तव्या । 'एगिदियागए' त्ति । जातीनामपिद्वीन्द्रियादिजातीनामपि, एवं-प्रागुक्तप्रकारेणैकेन्द्रियादागतस्य 'तस्थितिकस्य'-एकेन्द्रियप्रायोग्यजघन्यस्थितिकस्य जघन्या स्थित्युदीरणा भवति । तथाहि-एकेन्द्रियो जघन्यस्थितिसत्कर्मकेन्द्रियभवादुद्धृत्य द्वीन्द्रियेपूत्पन्नः, ततः पूर्वबद्धां द्वीन्द्रियजातिमनुभवितु| मारभते, अनुभवाद्यसमयादारभ्यैव चैकेन्द्रियजातिं द्राधीयसा कालेन बर्बु प्रवृत्तः, ततस्तथैव त्रिचतुःपञ्चन्द्रियजातीः क्रमेण बध्नाति, एवं च बृहदन्तर्मुहूर्तचतुष्कमपगच्छति, ततो द्वीन्द्रियजाति बद्धमारभते, ततो बन्धावलिकान्तसमये तस्या द्वीन्द्रियजातेरेकेन्द्रियभ-12 TEGEKKSENTER ॥५७।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy