________________
(मलय ० ) - 'एगिंदिय'त्ति । एकेन्द्रियाणामेवोदीरगां प्रति या योग्याः प्रकृतयस्ता एकेन्द्रिययोग्याः - एकेन्द्रियजातिस्थावरसूक्ष्म साधारणनामानस्तासामेकेन्द्रियो जघन्यस्थितिसत्कर्मा, इतरा - एकेन्द्रियजात्यादिप्रतिपक्षभूता द्वीन्द्रियजात्यादिकाः प्रकृतीर्बद्ध्वा तद्यथाएकेन्द्रियजातेन्द्रिय त्रीन्द्रियचतुरिन्द्रियजातीः, स्थावरसूक्ष्मसाधारणानां त्रसबादरप्रत्येकनामानि तत एकेन्द्रियजात्यादीर्बध्नाति ततो बन्धावलिकां गत्वाऽतिक्रम्य बन्धावलिकायाश्चरमसमये एकेन्द्रियजात्यादीनां जघन्यां स्थित्युदीरणां करोति । इयमत्र भावना - एकेन्द्रियः सर्वजघन्य स्थितिसत्कर्मा द्वीन्द्रियादिजातीः सर्वा अपि परिपाट्या बध्नाति ततस्तद्धन्धानन्तरमे केन्द्रियजातिं बद्धुमारभते, ततो बन्धावलिकायाश्वरमसमये पूर्वबद्धायास्तस्या एकेन्द्रियजातेर्जघन्यां स्थित्युदीरणां करोति । इह बन्धावलिकाया अनन्तरसमये बन्धावलिकाप्रथमसमयबद्धा अपि लता उदीरणामायाति, ततो जघन्या स्थित्युदीरणा न प्राप्यते इति कृत्वा बन्धावलिकायावर मसमये इत्युक्तम् । यावता कालेन प्रतिपक्षभूताः प्रकृतीर्बध्नाति तावता कालेन न्यूना एकेन्द्रियजातेः स्थितिर्भवति, ततः स्तोकतरा प्राप्यते | इति प्रतिपक्षभूतप्रकृतिबन्धोपादानम् । एवं स्थावरसूक्ष्मसाधारणानामपि भावना कर्तव्या । केवलमेतेषां प्रतिपक्षभूताः प्रकृतयः सबादर प्रत्येकनामानो वेदितव्याः । 'एगिंदिय' इत्यादि । जातीनामपि - द्वीन्द्रियादिजातीनामपि एवं पूर्वोक्तेन प्रकारेण एकेन्द्रियादागतस्तत्स्थितिकः- एकेन्द्रियप्रायोग्यजघन्यस्थितिको जघन्यां स्थित्युदीरणां करोति । अत्रापीयं भावना - एकेन्द्रियो जघन्यस्थितिसत्कर्मा एकेन्द्रियभवादुद्धृत्य द्वीन्द्रियेषु मध्ये समुत्पन्नस्ततः पूर्वबद्धां द्वीन्द्रियजातिमनुभवितुमारभते । अनुभवप्रथमसमयादारभ्य चैकेन्द्रियजातिं दीर्घकालं बधुं लग्नः । ततस्तथैव त्रीन्द्रियजातिं चतुरिन्द्रियजातिं पश्चेन्द्रियजातिं च क्रमेण बध्नाति । एवं च महान्ति चत्वार्य - | न्तर्मुहूर्तानि अतिक्रान्तानि । ततो द्वीन्द्रियजातिं बद्धुमारभते । ततो बन्धावलिकायाञ्चरमसमये तस्या द्वीन्द्रियजा तेरे केन्द्रियभवोपा
या