________________
द्विविधं हि वीर्यं छात्रस्थिकं केवलिकं च । उभयमपि प्रत्येकमकषायि सलेश्यं च भवति । तत्र छानस्थिकमकषायि सलेश्यमुपशान्तक्षीणमोहानां, कैवलिकं च सयोगिकेवलिनां, छाब्रस्थिकं सूक्ष्मसंपरायान्तानां कषायिकमपि भवति । कैवलिकं चायोगिकेवलिनां सिद्धानां चालेश्यमपि, परमिह यत् सलेश्यं तदेव परिगृह्यते, तस्यैव बन्धादिहेतुत्वात् । तच्च सूक्ष्मबादरपरिस्पन्दरूपक्रियात्मकं योगसंझमुच्यते । एकार्थिकान्यस्य चामूनि - "जोगो विरियं थामो उच्छाह परिक्कमो तहा बेठ्ठा । सत्ती सामत्थं चिय जोगस्स हवंति पज्जाया" इति ।। ३ ।। अथास्य कार्यभेदेन संज्ञाभेदं जीवप्रदेशेषु तारतम्येनावस्थाने कारणं चाह
परिणामालं व गगहण साहणं तेण लद्धनामतिगं । कज्जब्भासण्णोण्णप्पवेसविसमीकयपएसं ॥ ४ ॥ (चु० ) - परिणामालवणगहणस्स साहणं जं वीरियं तं परिणामालंबणगहणसाहणं । साहणं ति वा करणं ति वा एग | साहेति अणेण त्ति साहणं । जेण वीरिएण पंचण्डं सरीराणं पातोग्गे पोग्गले घेत्तुण सरीरत्ताते परिणामेति तं वीरियं परिणाम गहणसाहणं ति बुच्चति । जेण वीरिएण आणापाणभासमणाणं पाउग्गपोग्गले कायजोगेण घेनुण आणपाणभासमणत्ताए आलंबित्ता णिसिरति तं वीरियं आलंबणगहणसाहणं ति वुच्चति । एत्थ वीरियं साहणं । जस्स वा वीरियस्स परिणामा य आलंबणा य जं घेप्पते दव्यं तं परिणामालंबणगहणं तं साहणं जस्स वीरितस्स तं परिणामालंबणगहणसाहणं । दव्वणिमित्तं वीरियं उप्पज्जइ त्ति काउं घेप्पतित्ति ग्रहणं । एत्थ दव्वं साहणं । अहवा वीरियमेव गहणं । तं दुविहं परिणामगहणं आलंबणगहणं च । तस्स दुविहस्स वि साहणं तदंतरायक्वयक्वयोवसमलद्वी परिणामालंबणगहणाणं साहणं लडी । तेण लडिणामएण
११