SearchBrowseAboutContactDonate
Page Preview
Page 875
Loading...
Download File
Download File
Page Text
________________ RSE रणा स्थिति संक्रमयति, ततो देवगतेरपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जायते, देवगति च बध्नन् जघकर्मप्रकृतिः न्येनाप्यन्तर्मुहर्त यावद्भध्नाति, बन्धानन्तरं च कालं कृत्वाऽनन्तरसमये देवो जातः, देवत्वं चानुभवतस्तस्य देवगतेरन्तर्मुहत्तोंना विंशति- |स्थित्युदी 12 सागरोपमकोटाकोटीप्रमाणोत्कृष्टस्थितिरुदीरणायोग्या भवति, आवलिकाद्विकान्तर्मुहत्तौनत्वेऽप्यावलिकाप्रक्षेपकृतबृहत्तरान्तर्मुहर्मोनत्व॥५४॥ मविरुद्धमेवेति नाबलिकोनत्वमपि पृथग्गृहीतम् , एवं देवानुपूर्व्या अपि वाच्यम् । तथा कश्चित्संक्लेशविशेषेण नरकानुपूा उत्कृष्टां स्थितिं विंशतिसागरोपमकोटाकोटीप्रमाणां बद्धा ततः शुभपरिणामविशेषेण मनुष्यानुपूर्पा उत्कटां स्थितिं पश्चदशसागरोपम || कोटाकोटीमानां बद्धमारभते, तस्यां मनुष्यानुपूर्वीस्थितौ बध्यमानायामावलिकात उपरितनी बन्धावलिकाहीनां सकलामपि नरकानुपूर्वीस्थिति संक्रमयति, ततो मनुष्यानुपूर्णा अपि स्थितिरावलिकामात्रहीनविंशतिसागरोपमकोटाकोटिप्रमागा जाता । मनुष्यानुपूर्वी च बध्नन् जघन्येनाप्यन्तर्मुहूर्त यावद्ध्नाति, तच्चान्तर्मुहूर्त संक्रमलब्धोत्कृष्टस्थितेस्त्रुटथति, ततो बन्धानन्तरं कालं कृत्वा मनुष्यानुपूर्वीमनुभवतस्तस्या उत्कृष्टस्थितिरन्तर्मुहू तोनविंशतिसागरोपमकोटाकोटिप्रमाणोदीरणायोग्या । ननु मनुष्यगतिमनुष्यानुपूर्योरुभयोरपि बन्धेन पञ्चदशसागरोपमकोटीकोटय उत्कृष्टा स्थितिः पाप्यते, न त्वेकस्या अपि विंशतिः, तत उभयोरपि संक्रमोत्कृष्टत्वाविशेषात् कथं मनुष्यगतेरिख मनुष्यापूा अपि नाबलिकात्रिकहीनोत्कृष्टा स्थितिरुदीरगायोग्येष्यते इति चेत् ?, मैवं, मनुष्यानुपूा अनुदयसंक्रमोत्कृष्टत्वात् , अनुदयसंक्रमोत्कृष्टानां च जघन्यतोऽप्यन्तर्मुहत्तोनाया एवोत्कृष्टस्थितेरुद्दीरगायोग्य- ॥५४॥ त्वात् , मनुष्यगतेस्तूदयसंक्रमोत्कृष्टत्वेन तस्या आवलिकात्रिकहीनोत्कृष्टस्थितेरेवोदीरणायोग्यत्वसंभवात् । एवमातपादीनामप्यन्तर्मुह| तानोत्कृष्टस्थितेरुदीरणायोग्यत्वं भावनीयम् । नन्वनुदयसंक्रमोत्कृष्टस्थितिप्रकृतीनामन्तर्मुहौना भवतूत्कृष्टस्थितिरुदीरणायोग्या, आत RecenesSOCI20
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy