________________
तीनां प्रकृतीनामन्तर्मुहूर्ताना उत्कृष्टा स्थितिरुदीरणायोग्या भवतु, आतपनाम तु बन्धोत्कृष्टं ततस्तस्य बन्धोदयावलिकाद्विकरहितवोत्कृष्टा
स्थितिरुदीरणाप्रायोग्या प्राप्नोति, कथमुच्यतेऽन्तर्मुहूर्तोनेति ? उच्यते-इह देव एवोत्कृष्ट संक्लेशे वर्तमान एकेन्द्रियप्रायोग्याणा१२ मातपस्थावरैकेन्द्रियजातीनामुत्कृष्टां स्थिति बध्नाति, नान्यः। स च तां बद्धा तत्रैव देवभवेऽन्तर्मुहूर्त कालं यावदवतिष्ठते । ततः
कालं कृत्वा बादरपृथ्वीकायिकेषु मध्ये समुत्पद्यते । समुत्पन्नः सन् शरीरपर्याप्या पर्याप्त आतपनामोदये वर्तमानस्तदुदीरयति । तत एवं सति तस्यान्तर्मुहतोनवोत्कृष्टा स्थितिरुदीरणायोग्या भवति । आतपग्रहणं चोपलक्षणम् । तेनान्यासामपि स्थावरै केन्द्रियजातिनरकद्विकतिर्यरिद्वकौदारिकसप्तकान्त्यसंहनननिद्रापञ्चकरूपाणामेकोनविंशतिसंख्याकानामनुदयबन्धोत्कृष्टानामन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्या वेदितव्या। तत्र स्थावरैकेन्द्रियजातिनरकद्विकानां भावना कृता । शेषाणां क्रियते-तत्र नारकः तिर्यद्धिकौदारिकसप्त कान्त्यसंहननानामुत्कृष्टां स्थिति बद्ध्वा ततो मध्यमपरिणामः सन् तत्रैवान्तर्मुहूर्त स्थित्वा तिर्यर्त्पन्न उत्कृष्टामुदीरणां करोति । निद्रापञ्चकस्याप्युदये उत्कृष्टां स्थितिमुत्कृष्टेन संक्लेशेन बद्ध्वा ततोऽन्तर्मुहूर्ते गते सति निद्रोदये उत्कृष्टामुदीरगां करोति ॥३३॥
(उ०)-देवगतिदेवानुपूर्वीमनुष्यानुपूर्वीणामातपस्य विकलत्रिकस्य द्वित्रिचतुरिन्द्रियजातिरूपस्य सूक्ष्मत्रिकस्य च सूक्ष्मापर्याप्तसाधारणस्य स्वस्वोदये वर्तमाना अन्तर्मुहूर्त्तभग्नाः-उत्कृष्टस्थितिबन्धाध्यवसायानन्तरमन्तमुहूर्त्तमात्रव्यवधानभाज इत्यर्थः, तावदूनामन्तर्मुहत्तॊनां तदुत्कृष्टां-देवगत्यादीनामुत्कृष्टां स्थितिमुदीरयन्ति । अत्रेयं भावना-इह कश्चित्परिणामविशेषेण नरकगतेरुत्कृष्टां स्थिति विंशतिसागरोपमकोटाकोटिप्रमाणां बद्ध्या ततः शुभपरिणामविशेषसंपत्त्या देवगतेरुत्कृष्टां स्थितिं दशसागरोपमकोटीकोटीप्रमाणां बधुमारभते, तस्यां देवगतिस्थितौ बध्यमानायां स्वबन्धकालरूपावलिकाया उपरि बन्धावलिकाहीनामुपरितनी सर्वामपि नरकगति
HDMISSISROCAREERS