SearchBrowseAboutContactDonate
Page Preview
Page 873
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः स्थित्युदी. रणा ॥५३॥ GENERFOROMDISCre |धिकान्तर्मुहूर्तोनेति प्राप्नोति कथमुच्यतेऽन्तर्मुहतोंनेति ? नैष दोषः, यत आवलिकाप्रक्षेपेऽपि तदन्तर्मुहूर्त मेव, कालं बृहत्तरमवगन्तव्यमिति । एवं देवानुपूर्ध्या अपि वाच्यम् । तथा कश्चिन्नरकानुपूर्व्या उत्कृष्टां स्थिति विंशतिसागरोपमकोटीकोटीप्रमाणां बद्ध्वा ततः | शुभपरिणामविशेषतो मनुष्यानुपूर्व्या उत्कृष्टां स्थितिं पश्चदशसागरोपमकोटीकोटीप्रमाणां बधुमारभते । ततस्तस्यां मनुष्यानुपूर्वीस्थितौ | वध्यमानायामावलिकाया उपरि बन्धावलिकाहीनामावलिकात उपरितनी सकलामपि नरकानुपूर्वीस्थिति संक्रमयति । ततो मनुष्यानुपूा अपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता | मनुष्यानुपूर्वी च बनन् जघन्येनाप्यन्तर्मुहूर्त कालं यावदभाति, तच्चान्तमुहूर्तमावलिकोनविंशतिसागरोपमकोटीकोट्यास्त्रव्यति । बन्धानन्तरं च कालं कृत्वा मनुष्यानुपूर्वीमनुभवतस्तस्या उत्कृष्टा स्थितिरन्तर्मुहूतोंना विंशतिसागरोपमकोटीकोटीप्रमाणा उदीरणायोग्या। ननु मनुष्यगतेरपि पश्चदशसागरोपमकोटीकोटयो बन्धेनोत्कृष्टा स्थितिः प्राप्यते, तथा मनुष्यानुपूर्व्या अपि, न त्वेकस्या अपि विंशतिः । तत उभे अपि संक्रमोत्कृष्टे, संक्रमोत्कृष्टत्वाविशेषे च कथं | मनुष्यगतेरिव मनुष्यानुपूर्व्या अपि पावलिकात्रिकहीनोत्कृष्टा स्थितिरुद्दीरणायोग्या न भवति ? तदयुक्तं, मनुष्यानुपूर्त्या अनुदय-| संक्रमोत्कृष्टत्वात् । तदुक्तं--" 'मणुयाणुपुब्बि मीलग-आहारग-देवजुयल-विगलाणि । सुटुमातितिगं-तित्थं अणुदयसंकमणुकोसा॥" अनुदयसंक्रमोत्कृष्टानां च जघन्यतोऽप्यन्तर्मुहूर्तोनाया एवोत्कृष्टस्थितेरुदीरणायोग्यत्वात् । मनुष्यगतिस्तूदयसंक्रमोत्कृष्टा । तदुक्तं""मणुगइ सायं सम्मं थिर हासाइन्छ वेय सुभखगई। रिसभच उरंसगाईपणुच्चुदयसंकमुक्कोसा ॥" ततस्तस्या आवलिकात्रिकहीनवोत्कृष्टा स्थितिरुदीरणायोग्या भवतीति । एवमातपादीनामप्यन्तर्मुहतोना उत्कृष्टा स्थितिरुदीरणायोग्या भावनीया । नन्वनुदयसंक्रमोत्कृष्टस्थि १ पञ्चसंग्रह बन्धव्यद्वार गा० ६३ २ गा० ६२ ॥५३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy