SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः स्थित्युदी रणा ॥४५॥ SOSORRESED | स्थितिसत्कर्मणो लभ्यते । ततः तस्यैव समयान्तरे प्रवर्धमानसत्कर्मणोऽजघन्या, ततः पुनरपि जघन्येति जघन्याऽजघन्या च सादिरध्रुवा च । आयुषः पर्यन्तावलिकायां न भवति, परभवोत्पत्तिप्रथमसमये च भवति, ततः सादिरध्रुवा च । तथा सर्वासां प्रकृतीनां शेषविकल्पा उत्कृष्टानुत्कृष्टजघन्यलक्षणा द्विधा-द्विप्रकाराः, तद्यथा-सादयोऽध्रुवाश्च । तथाहि-सर्वेषामपि कर्मणामायुर्वर्जानामुत्कृष्टा | | स्थित्युदीरणा मिथ्यादृष्टरुत्कृष्टे संक्लेशे वर्तमानस्य कियत्कालं प्राप्यते, ततः समयान्तरे तस्याप्यनुत्कृष्टा, ततः पुनरपि समयान्तरे | उत्कृष्टा, संक्लेशविशुद्धयोः प्रायः प्रतिसमयमन्यथाभावात्, ततो द्वे अपि साद्यध्रुवे । जघन्या च द्विधा प्रागेव भाविता । आयुषां तु विकल्पत्रयेऽपि युक्तिः प्राक्तन्येव प्रायोऽवसेया ॥३०॥ (उ०)-अथ साधनादिप्ररूपणा कार्या, सा द्विधा-मूलप्रकृतिविषया,उत्तरप्रकृतिविषया च । तत्राद्यं साधनादिप्ररूपणार्थमाह-इह | मूलस्थितिशब्दौ द्वावपि लुप्तषष्ठीविभक्तिको । ततोऽयमर्थः-मूलप्रकृतीनां मध्ये मोहस्य स्थितेरुदीरणाऽजघन्या चतुर्विधा-सादिरनादिधुंवाऽधुवा चेति । तथाहि-मोहनीयस्य जघन्या स्थित्युदीरणा सूक्ष्मसंपरायक्षपकस्य स्वगुणस्थाने समयाधिकावलिकाशेषे भवति, ततोऽन्यत्र सर्वत्राप्यजघन्या, स चोपशान्तमोहे न भवति, ततः प्रतिपाते च भवतीति सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाऽभव्यानां, अध्रुवा भव्यानाम् । शेषा ज्ञानावरणदर्शनावरणनामगोत्रान्तरायागां स्थित्युदीरणाऽजघन्या त्रिधा-अनादिर्बुवाऽध्रुवा चेति । तथाहिज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्युदीरणा क्षीणकषायस्य स्वगुणस्थाने समयाधिकावलिकाशेपे भवति, शेषकालं त्वजघन्या, सा चानादिः, सदैव भावात् । धुवाध्रुवे पूर्ववत् । नामगोत्रयोस्तु जघन्या स्थित्युदीरमा सयोगिकेवलिचरमसमये, सा च सादिरध्रुवा |च, ततोऽन्या सर्वाऽप्यजघन्या, सा चानादिः, सदा भावात् । धुवाधुवे पूर्ववत् । वेदनीयायुषोरजघन्या स्थित्युदीरणा द्विधा, तथाहि ॥४५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy