________________
AS SAA
णत्थित्ति तेण सादिय अधुवा ठितिउदीरणा । 'सेसविग्गप्पा य सव्वासि' ति-सेसविगप्पत्ति उक्कोसो (अणुक्कसो) जहण्णा सादिय अधुवा । कहं ? भण्णइ - सव्वेसिं कम्माणं आउगवज्जाणं उक्को सियद्वितिउदीरणा मिच्छाद्दिट्ठिस्स लग्भइ । उक्कोसियाउ ठितीउदीरणाउ अणुक्कोसं जाति, अणुक्कोसियातो पुणो उक्कोसं | जातित्ति, तम्हा सातियअधुवो । जहण्णिया ठितिउदीरणा एगसमयत्ति तेण सादिय अधुवा ||३०|
(मलय ० ) – तदेवं कृता भेदप्ररूपणा । सम्प्रति साद्यनादिप्ररूपणा कर्त्तव्या । सा च द्विधा - मूलप्रकृतिविषया उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयसाद्यनादिप्ररूपणार्थमाह- 'मूलठिङ' ति । मूलस्थितिशब्दाभ्यां प्राकृतत्वात् प्रत्येकं षष्ठीविभक्तिलोपः । ततो| ऽयमर्थः- मूलप्रकृतीनां मध्ये मोहस्य - मोहनीयस्य स्थितेरुदीरणाज्जघन्या चतुर्विधा - चतुष्प्रकारा । तद्यथा - सादिरनादिवाऽध्रुवा च । तथाहि - मोहनीयस्य जघन्या स्थित्युदीरणा सूक्ष्म संपरायस्य क्षपकस्य स्वगुणस्थानक समयाधिकावलिकाशेषे वर्तमानस्य भवति । ततो | ऽन्यत्र सर्वत्राप्यजघन्या, सा चोपशान्तमोहगुणस्थानके न भवति, ततः प्रतिपाते च भवति, ततोऽसौ सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाऽभव्यानां, अध्रुवा भव्यानाम् । शेषा ज्ञानावरणदर्शनावरणनामगोत्रान्तरायाणां स्थित्युदीरणाऽजघन्या त्रिधा - त्रिप्रकारा, तद्यथा - अनादिवाऽध्रुवा च । तथाहि - ज्ञानावरणदर्शनावरणान्तरायाणां जघन्या स्थित्युदीरणा क्षीणकषायस्य स्वगुणस्थानसमयाधिकावलिकाशेषे वर्तमानस्य भवति, शेषकालं त्वजघन्या । सा चानादिः सदैव भावात् । ध्रुवाभ्रुवे पूर्ववत् । नामगोत्रयोस्तु जघन्या | स्थित्युदीरणा सयोगिकेवलिचरमसमये । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या । सा चानादिः । ध्रुवाधुवे पूर्ववत् । वेदनीयायुषोरजघन्या स्थित्युदीरणा द्विधा, तद्यथा-सादिरध्रुवा च । तथाहि वेदनीयस्य जघन्या स्थित्युदीरणा एकेन्द्रियस्य सर्वस्तोक
Draks