SearchBrowseAboutContactDonate
Page Preview
Page 851
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥४२॥ रण भाव्यन्ते । तदेवमुक्तानि नामकर्मणः सप्रपञ्चमुदीरणास्थानानि । साम्पतं शेषकर्मणामुदीरणास्थानप्रतिपादनार्थमाह-'सेस' इत्यादि। शेषक-1 स्थित्युदीमणां ज्ञानावरणवेदनीयायुर्गोत्रान्तरायलक्षणानामुदीरणास्थानमेकैकमवगन्तव्यं, तद्यथा-ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेक| कमुदीरणास्थानम्। वेदनीयायुर्गोत्राणां तु वेद्यमानकप्रकृत्यात्मकम् । न ह्यमीषां द्विव्यादिकाःप्रकृतयो युगपदुदीयन्ते, युगपदुदयाभावात् । एतच्च ज्ञानावरणादीनामेकैकमुदीरणास्थानं प्रागुक्तकैकप्रकृत्युदीरणायाः स्वामित्वं साधयित्वा-निश्चित्य गुणस्थानकेषु नारकादिगतिषु स्वयमेव ज्ञेयं ज्ञातव्यम् ।।२८।। __ (उ०)-अथ गतीराश्रित्य स्थानप्ररूपणामाह-निरयगतावुदीरणास्थानानि पञ्च । तथाहि-द्विचत्वारिंशदेकपञ्चाशत् त्रिपश्चाशदादीनि त्रीणि च । तिर्यग्गतावेकचत्वारिंशद्वर्जानि नवाप्युदीरणास्थानानि । मनुजगतावपि सयोगिकेवल्यादीनाश्रित्य पञ्चाशद्वर्जानि नव । देवगतावपि द्विचत्वारिंशदेकपञ्चाशत्रिपञ्चाशदादीनि चत्वारि चेति षट् । एतानि सर्वाण्यपि प्राग्भावितान्येव । | तदेवमुक्तानि प्रपञ्चेन नाम्न उदीरणास्थानानि । अथ शेषकर्मणां तान्याह- सेसकम्भाणं' इत्यादि । शेषकर्मणां ज्ञानावरणवेदनीया| युर्गोत्रान्तरायाणामुदीरणास्थानमेकैकमवसेयम् । तथाहि-ज्ञानावरणान्तराययोः पञ्चप्रकृत्यात्मकमेकैकमुदीरणास्थानम् । वेदनीयायुर्गो| त्राणां त्वनुभूयमानेकैकप्रकृत्यात्मकम् । न ह्यमीषां द्विव्यादिनकृतयो युगपदुदीयन्ते, युगपदुदयाभावात् । एतच्चामीपामेकैकमुदीरणास्थानं एकैकप्रकृत्युदीरणायाः स्वामित्वं 'साधयित्वा'-निश्चित्य गुणस्थानकेषु निरयादिगतिषु च स्वयमेव ज्ञेयम् ।। २८ ॥ ॥४२॥ इदाणिं ठितिउदीरणा भण्णइ । तीसे इमे अत्थाहिगारा। तं जहा-लक्ग्वणं भेदो सादिअणादिपरूवणा
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy