________________
कर्मप्रकृतिः
॥१९॥
दिल
स्थित्यनुभागाश्रये । तत्रोदाते प्रभृतीक्रियेते स्थित्यनुभागौ यया वीर्यपरिणत्या सा उद्वर्तना । अपवयेते हस्वीक्रियेते तो यया अभिधेयादि | साऽपवर्त्तना । उदीयतेऽनुदयप्राप्तं कर्मदलिकमुदयावलिकायां प्रवेश्यते यया सा उदीरणा । उपशम्यते उदयोदीरणानिधत्तिनिकाचना
करणायोग्यत्वेन व्यवस्थाप्यते कर्म यया सोपशमना । निधीयते उद्वर्तनापवर्तनान्यशेषकरणायोग्यत्वेन व्यवस्थाप्यते यया सा | निधतिः, पृषोदरादित्वादिष्टरूपसिद्धिः । “कच बन्धने" नितरां कच्यते-स्वयमेव बन्धमायाति तथाविधसंक्लिष्टाध्यवसायस्य | जीवस्य कर्म, तत्प्रयुक्त जीव एव तथानुकूल्येन भवनादिति प्रयोक्तृव्यापारे 'णिग' (प्रत्ययः), ततो निकाच्यते सकलकरणायोग्यत्वेनावश्यवेद्यतया व्यवस्थाप्यते कर्म जीवेन यया सा निकाचना । अथवा "कच बन्धने" इति चौरादिकोऽप्यस्तीति तस्येदं रूपम् । 'चः समुच्चये । 'इतिः' परिसमाप्तौ । एतावन्त्येव करणानि, नाधिकानि, बन्धसङ्कमादीनां कार्याणामष्टविधत्वेन करणमप्यएविधमेवेति भावः ॥२॥ करणानि चामूनि जीववीर्यविशेषरूपाणीति प्रथमतो वीर्य प्ररूपयति
विरियंतरायदेसक्खएण सबक्खएण वा लद्धी।
अभिसंधिजमियरं वा, तत्तो विरियं सलेसस्स ॥ ३॥ (चू०)-तत्थ णिमित्तं वीरियंतरायस्स कम्मस्स खयोवसमेणं वीरियलद्धी छउमत्थाणं उप्पज्जइ, खततो केवलीणं वीरियलडी उप्पज्जा । तं चउविहं-बादरमुहमए य इइणा सहितं इयरं च । तत्थ पढम जोग| सपणं लभते, मणजोग्गादिदव्वसंजोगातो। तस्स इमाणि एगद्विताणि-"जोगो विरियं थामो उच्छाह परक्कमो तहा | चिट्ठा । सत्ती सामत्थं ति य जोगस्स भवंति पज्जाया ॥१॥" तं च दुविह-अभिसंधिजमियरं वत्ति । आहाराति| निमित्तं संवेयणापुन्वगं अभिसंधि विरियं, असंवेइया स्खलरसातिपरिणामणा सत्ती अणभिसंधिजं वीरितं।