SearchBrowseAboutContactDonate
Page Preview
Page 848
Loading...
Download File
Download File
Page Text
________________ | रणास्थानानि-एकचत्वारिंशत् द्विचत्वारिंशत् द्विपश्चाशदादीनि पद् चेति । एतानि च प्रागेव भाषितानि । । तदेवं गुणस्थानेषु नाम्न उदीरणास्थानानि भावितानि । अथ कस्मिन्नुदीरणास्थाने कति भङ्गाः प्राप्यन्त इति संचिकलयिषुराह-'ठाग क्कमेण' इत्यादि-स्थानकक्रमेण-एकचत्वारिंशदायुदीरणास्थानक्रमेण भङ्गा अपि वक्ष्यमाणरीत्या ज्ञेयाः । तथाहि-एकचत्वारिंशत्येको | भङ्गः, स चातीर्थकृत्केवलिनः। द्विचत्वारिंशति त्रिंशद्भङ्गाः, तत्र नरयिकानधिकृत्यैकः, एकेन्द्रियानधिकृत्य पञ्च, विकलेन्द्रियानधिकृत्य प्रत्येकं त्रिकमाप्तेर्नव, तिर्यपश्चेन्द्रियान्मनुष्याँचाधिकृत्य पश्च पञ्च, जिनमधिकृत्यैकः, सुरानधिकृत्य चत्वार इति । मतान्तरेण तु तिर्यकपञ्चेन्द्रियान्मनुष्याँश्चाश्रित्य नव नव, देवानधिकृत्य चाष्टौ भङ्गाः प्राप्यन्त इति द्विचत्वारिंशति द्विचत्वारिंशद्भङ्गाः। पश्चाशत्येकादश | भङ्गाः, ते चैकेन्द्रियेष्वेव प्राप्यन्तेऽन्यत्र पञ्चाशतोप्राप्तेः । एकपञ्चाशत्येकविंशतिर्भङ्गाः । तत्र नैरविकेम्वेकः, एकेन्द्रियेषु सप्त, वैक्रिय-17 तिर्यकपश्चेन्द्रियनरेषु चत्वारश्चत्वारः, आहारकशरीरिसंयतेष्वेकः, देवेषु चत्वार इति । मतान्तरेण तु वैक्रियतिर्यङ्मनुष्यदेवेषु प्रत्येकमष्टा| वष्टौ भङ्गाः प्राप्यन्त इति त्रयस्त्रिंशद्भङ्गाः। 'सबार तिसई यत्ति-सद्वादश द्वादशाधिका त्रिशती भङ्गानां द्विपञ्चाशत्यवसेया । तत्रैकेन्द्रि| यानधिकृत्य त्रयोदश, विकलेन्द्रियेषु प्रत्येकं त्रिकत्रिकप्राप्तेनैव भवन्ति, तिर्यक्षञ्वेन्द्रियेषु पञ्चचत्वारिंशं शतं, मनुष्येपपि पञ्चच| त्वारिंशं शतमिति । मतान्तरेण तु भङ्गानां पदशती द्विपश्चाशति वेदितव्या, तियपञ्चेन्द्रियेषु मनुष्येषु च प्रत्येकं भङ्गानामेकोननहै वत्यधिकशतद्वयमाप्तेः । त्रिपञ्चाशत्येकविंशतिर्भङ्गाः, तत्र नैरयिकेष्वेकः, एकेन्द्रियेषु षद् , वैक्रियतिर्यपञ्चेन्द्रियेषु चत्वारः, वैक्रिय | मनुष्येष्वपि चत्वारः, आहारकशरीरिणस्त्वधिकृत्यैकः, तीर्थकरेऽप्येकः, देवेषु च चत्वार इति ! अत्रापि मतान्तरेण वैक्रियतिर्यकप वेन्द्रियमनुष्यदेवेषु प्रत्येकमष्टावष्टौ भङ्गा इति त्रिपञ्चाशति त्रयस्त्रिंशद्भङ्गाः। चतुःपञ्चाशति भङ्गानां पडुत्तराणि षट् शतानि, तथाहि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy