SearchBrowseAboutContactDonate
Page Preview
Page 846
Loading...
Download File
Download File
Page Text
________________ G DPRODDDD | त्वष्टौ भङ्गाः । सर्वाग्रेण पञ्चपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण षोडश । ततो भाषापर्याप्या पर्याप्तस्य सुस्वरसहितायां पञ्चपञ्चाशत्युद्योतक्षेपे षट्पञ्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरेऽष्टौ भङ्गाः। सर्वसंख्यया देवानां स्वमतेन द्वात्रिंशद्भङ्गाः, मतान्तरे चतुःषष्टि। नरयिकाणामुदीरणास्थानानि पञ्च, तथाहि-द्विचत्वारिंशदेकपश्चाशत्रिपश्चाशचतुःपञ्चाशत् पञ्चपञ्चाशच्चेति । तत्र नरकगतिनरकानुपूज्यौँ पञ्चेन्द्रियजातिस्त्रसवादरपर्याप्तदुर्भगानादेयायशःकीर्तय इत्येता नव प्रकृतयस्त्रयस्त्रिंशद्धृवोदीरणाभिर्मिश्रिता द्विचत्वारिंशद्भ-1 | वति । अत्र सर्वाणि पदान्यप्रशस्तानीत्येक एव भङ्गः । ततः शरीरस्थस्य वैक्रियसप्तकहुण्डसंस्थानोपघातप्रत्येकलक्षणदशप्रकृतिक्षेपे नर-14 | कानुपूर्व्यपनयने एकपञ्चाशत् । अत्राप्येक एव भङ्गः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाताप्रशस्तविहायोगतिप्रक्षेपे त्रिपञ्चाशत् । अत्राप्येक एव भङ्गः । ततः प्राणापानपर्याच्या पर्याप्तस्योच्छवासे क्षिप्ते चतुःपञ्चाशत् । अत्राप्येक एव भङ्गः। ततो भाषापर्याप्या पर्याप्तस्य दुःस्वरे क्षिप्ते पञ्चपञ्चाशत् । अत्राप्येक एव भङ्गः । सर्वसंख्यया नैरयिकाणां पञ्च भङ्गाः । तदेवमुक्तानि नामकर्मण उदी| रणास्थानानि । ____ अर्थतान्येव गुणस्थानकेषु योजयन्नाह-गुणिसु णामस्स' इत्यादि । मिथ्यादृष्टिप्रभृतिषु सयोगिकेवलिपर्यन्तेषु गुणिषु-गुणस्थानकेषु यथासङ्खयं नवादिसङ्घयान्युदीरणास्थानानि भवन्ति । तत्र मिथ्यादृष्टेनवोदीरणास्थानानि । तथाहि-द्विचत्वारिंशत् पञ्चाशत एकपश्चाशत् द्विपश्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाशत् चेति । अमूनि सर्वाण्यपि मिथ्यादृष्टीनेकेन्द्रियादीनधिकृत्य स्वयं भाव्यानि । सासादनसम्यग्दृष्टेः सप्तोदीरणास्थानानि । तथाहि-द्विचत्वारिंशत् पञ्चाशत् एकपञ्चाशद द्विपञ्चाशत् पञ्चपञ्चाशत् पदपश्चाशत् सप्तपश्चाशचेति । तत्र बादरैकेन्द्रियविकलेन्द्रियतिर्यक्रपञ्चेन्द्रियमनुष्यदेवानां सासादनसम्यग्दृशा
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy