SearchBrowseAboutContactDonate
Page Preview
Page 845
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः रणा ॥३९॥ 50SDISe SEDGGESTORY | भङ्गौ । ततो भाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते षट्पञ्चाशद्भवति । भङ्गोत्राप्येक एव । सर्वसङ्गययाऽऽहारकशरीरिणां सप्त भङ्गाः । तदेवं मनुष्यानपेक्ष्य सामान्यमनुष्यवैक्रियशरीर्याहारकशरीरिकेवलिनां भङ्गाः सर्वसंख्यया त्रयोदश प्रकृत्युदीशतानि चतुर्विंशदधिकानि । परमतेन तु षविंशतिशतानि पञ्चाशदधिकानि । देवानामुदीरणास्थानानि षद्-द्विचत्वारिंशत् एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशञ्चेति । तत्र देव-१५ गतिदेवानुपूयौं पञ्चेन्द्रियजातिः त्रसबादरपर्याप्तानि सुभगादेययोदुर्भगानादेययोश्चैकतरयुगलं यशःकीर्त्ययशाकीयोरेकतरेत्येता नव प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याभिर्मिश्रिता द्विचत्वारिंशद्वर्गनिष्पादिका भवन्ति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयशः कीर्त्ययश-कीर्तिभिश्चत्वारो भङ्गाः, मतान्तरेण तु सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययशाकीर्तिभ्यां चाष्टौ भङ्गाः। ततः शरीरस्थस्य वक्रियसप्तकाद्यसंस्थानोपघातप्रत्येकलक्षणप्रकृतिदशकस्य क्षेपे देवानुपूर्व्याश्चापनयने एकपञ्चाशद्भवति । अत्रापि प्राग्वत्स्व| मतेन चतुर्भङ्गी, मतान्तरेणाष्टभङ्गी । ततः शरीरपर्याच्या पर्याप्तस्य पराघातप्रशस्तविहायोगतिक्षेपे त्रिपञ्चाशत् । अत्रापि प्राग्वत्स्वमतेन चतुर्भङ्गी, मतान्तरेणाष्टभङ्गी, देवनामप्रशस्तविहायोगत्युदयाभावात् तदाश्रितभङ्गाप्राप्तिः । ततःप्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशत् । अत्रापि स्वमते चतुर्भङ्गी, मतान्तरेणाष्टभङ्गी । यद्वा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि | तूदिते चतुःपञ्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरे त्वष्टौ भङ्गाः । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ, मतान्तरेण च षोडश भङ्गाः। ततो भाषापर्याप्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चपञ्चाशत् । अत्रापि खमते चत्वारो, मतान्तरे त्वष्टौ भङ्गाः । यद्वा प्राणापानपर्याप्तस्य खरस्यानुदये उद्योतनाम्नस्तूदये पञ्चपञ्चाशत् । अत्रापि स्वमते चत्वारो, मतान्तरे RODOONGRECRCTC
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy