SearchBrowseAboutContactDonate
Page Preview
Page 840
Loading...
Download File
Download File
Page Text
________________ ग्गतितिर्यगानुपूर्व्यां द्वीन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशः कीर्त्ययशः कीत्योरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्सङ्ख्याभिर्भुवोदीरणाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशदपान्तरालगताववसेया । अत्र भङ्गत्रयी - अपर्याप्तकनामोदयेऽयशः कीर्त्या सहेको भङ्गः, पर्याप्तकनामोदये च यशः कीर्त्ययशः कीर्तिभ्यां द्वाविति । ततः शरीरस्थस्यौदारिकसप्तक हुण्ड संस्थानान्त्यसंहननोपघातप्रत्येक रूपैकादश प्रकृतिक्षेपे तिर्यगानुपूर्व्याश्चोत्सारणे द्विपञ्चाशज्जायते । अत्र च प्राग्वदेव भङ्गत्रयी । ततः शरीरपर्याप्त्या पर्याप्तस्य अप्रशस्तविहायोगतिपराघातप्रक्षेपे चतुःपञ्चाशत् अत्र यशः कीर्त्ययशःकीर्तिभ्यां द्वौ भङ्गौ । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशत् । अत्रापि प्राग्वद् द्वौ भङ्गौ । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशत् । अत्रापि प्राग्वद् द्वौ भङ्गौ । सर्वाग्रेण पञ्चपञ्चाशति चतुर्भङ्गी । ततो भाषापर्यात्या पर्यातस्योच्छ्वाससहितायां पञ्चपञ्चाशति सुस्वरदुःस्वरयोरेकतरप्रक्षेपे षट्पञ्चाशत् । अत्र सुस्वरदुः स्वरयशः कीर्त्ययशः कीर्तिपदैश्चत्वारो भङ्गाः । यद्वा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पदपञ्चाशद्भवति । अत्र यशः कीर्त्ययशः कीर्तिभ्यां द्वौ भङ्गौ । सर्वाग्रेण षट्पञ्चाशति षद्भङ्गी । ततो भाषापर्यात्या पर्याप्तस्य स्वरसहितायां पदपञ्चाशत्युद्योतनामक्षेपे सप्तपञ्चाशद्भवति । | अत्र सुस्वरदुःस्वरयशः कीर्त्ययशः कीर्तिपदैश्चत्वारो भङ्गाः । सर्वे भङ्गा द्वीन्द्रियाणां द्वाविंशतिः । एवं त्रीन्द्रियचतुरिन्द्रिययोरपीयन्त्येवोदीरणास्थानानीयन्त एव च भङ्गा भावनीयाः । सर्वाग्रेण विकलेन्द्रियाणां भङ्गाः षट्षष्टिः । तिर्यक्पञ्चेन्द्रियाणां वैक्रियलब्धिविकलानां षडुदीरणास्थानानि - द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् पद्मश्चाशत् सप्तपञ्चाशञ्चेति । तत्र तिर्यग्गतितिर्यगानुपूर्व्यं पञ्चेन्द्रियजातिस्त्र सबादरे पर्याप्तापर्याप्तयोरेकतरं सुभगादेययुगलदुर्भगानादेययुगलयो Anaka
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy