SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः रणा साधारणाभ्यामयश कीर्तिनियताभ्यां द्वौ, सूक्ष्मस्य च पर्याप्तापर्याप्तप्रत्येकसाधारणैरयशःकीर्तिनियतैश्चत्वार इति । बादरवायुकायिकस्य वैक्रियं कुर्वन् औदारिकषद्कस्थाने वैक्रियषट्कमवगन्तव्यं, ततश्च तस्यापि पञ्चाशत एवोदीरणा भवति, केवलमिह बादरपर्याप्त- प्रकृत्युदीप्रत्येकायश कीर्तिपदैरेक एव भङ्गः । तैजसकायिकवायुकायिकयोहि साधारणयशकीयुदयाभावात्तदुदीरणाभाव इति तदाश्रितभङ्गा-12 | प्राप्तिः । तदेवं पञ्चाशद्वर्गे सर्वसङ्ख्ययैकादश भङ्गाः । ततः शरीरपर्याच्या पर्याप्तस्य पराघाते क्षिप्ते एकपश्चाशद्भवति, अत्र च भङ्गाः | षट्-बादरस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्तिपदेश्चत्वारः, सूक्ष्मस्य च प्रत्येकसाधारगाभ्यामयश-कीतिनियताभ्यां द्वाविति । वादरवायुकायिकस्य च वैक्रियं कुर्वतः शरीरपर्याच्या पर्याप्तस्य पराघाते क्षिप्ते प्रागुक्ता पश्चाशदेकपञ्चाशद्भवतीति । भङ्गश्चात्र प्राग्वदेक एवेति । सर्वसङ्ख्ययैकपश्चाशति सप्त भङ्गाः। ततः प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासे क्षिप्ते द्विपञ्चाशद्भवति । अत्रापि प्राग्वत् | | षड्भङ्गाः। यद्वा शरीरपर्याच्या पर्याप्तस्योच्छ्वासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन्नुदितेऽपि द्विपश्चाशद्भवति, तत्रापि भङ्गाः पदबादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयशःकीय॑यश-कीर्तिपदेश्चत्वारः, आतपसहितस्य च प्रत्येक यश-कीर्त्ययश कीर्तिपद्वौं भङ्गाविति । बादरवायुकायिकस्य वैक्रियं कुर्वतः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ले प्रागुक्ता एकपञ्चाशत् द्विपञ्चाशद्भवति, तत्र प्राग्वदेक एव भङ्गः । तैजसकाथिकवायुकायिकयोर्यातपोद्योतयशःकीर्तीनामुदयाभावादुदीरणाभाव इति नदाश्रितभङ्गाप्राप्तिः । सर्वाग्रेण द्विपश्चाशति त्रयोदश भङ्गाः । तथा प्राणापानपर्याच्या पर्याप्तस्योच्छ्वासान्वितायां द्विपञ्चाशति आतपोद्योतान्यतरक्षेपे त्रिपञ्चाशद्भवति । अत्र ये पागातपोद्योतान्यतरयुक्तायां द्विपञ्चाशत्युक्तास्त एव षड्भङ्गाः । सर्वसङ्ख्यया चैकेन्द्रियाणां भङ्गा द्विचत्वारिंशत् ।। ॥३६॥ द्वीन्द्रियाणामुदीरणास्थानानि षट्-द्विचत्वारिंशत् द्विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपश्चाशचेति । तत्र तिय
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy