________________
द्रष्टव्यः । उक्तद्विपञ्चाशदर्गे पराघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगत्यन्यतरसुस्वरदुःस्वरान्यतरलक्षणचतुष्टयझेपे षट्पश्चाशद्भवति । एतां | च सयोगिकेवल्यौदारिककाययोगे वर्तमान उदीरयति । उक्तत्रिपञ्चाशद्वर्गे च पराघातोच्छ्वासप्रशस्तविहायोगतिसुस्वरप्रक्षेपात्सप्तपञ्चाशद्भवति । तां च सयोगिकेवली तीर्थकर औदारिककाययोगे वर्तमान उदीरयति । सप्तपश्चाशदेव वाग्योगनिरोये पट्पश्चाशद्भवति । उच्छ्वासेऽपि निरुद्ध पञ्चपञ्चाशत् । अतीर्थकरकेवलिनः प्रागुक्ता षट्पञ्चाशद्वाग्योगनिरोधे कृते पञ्चपञ्चाशद्भवति । उच्छ्वासेऽपि च | रुद्ध चतुःपञ्चाशत् । अत्र द्विपश्चाशञ्चतुःपञ्चाशदर्जेषु शेपेषु षट्सु प्रत्येकमेकैकः सामान्यमनुष्यवलक्षण्येन विशेषभङ्गो लभ्यत इति | | सर्वसङ्ख्यया केवलिनां षभङ्गाः। तत्रैकचत्वारिंशद्वर्गेऽतीर्थकृत एको भङ्गः, शेपेषु तु पञ्चसु तीर्थकृतः। तदेवमुक्तानि केवलिनामुदीरणास्थानानि । . सम्प्रत्येकेन्द्रियाणामुच्यन्ते-एकेन्द्रियाणामुदीरणास्थानानि पञ्च-द्विचत्वारिंशत् पश्चाशदेकपश्चाशत् द्विपञ्चाशत्रिपञ्चाशचेति । तत्र तियंग्गतितिर्यगानुपूयौं स्थावरनामैकेन्द्रियजातिबादरसूक्ष्मयोरेकतरं पर्याप्तापर्याप्तयोरेकतरं दुर्भगमनादेयं यशःकीय॑यशःकीयोरेकतरेत्ये- | ता नव प्रकृतयः प्रागुक्ताभिधुंवोदीरणाभिस्त्रयस्त्रिंशत्सङ्खयाभिः सह मिश्रिता द्विचत्वारिंशद्भवति । अत्र भङ्गपञ्चकं, तथाहि-बादरमूक्ष्माभ्यां प्रत्येकं पर्याप्तापर्याप्ताभ्यामयशःकी, सह चत्वारो भङ्गाः, बादरपर्याप्तयश कीर्तिभिश्चैक इति। सूक्ष्मेणापर्याप्तेन च सह यशःकीर्तेरुदयो न भवति, तदभावाच्च नोदीरणेति तदाश्रितविकल्पाभावः। एषा द्विचत्वारिंशदपान्तरालगतावबसेया । ततः शरीरस्थस्यौदारिकशरीरौदारिकसङ्घातनौदारिकबन्धनचतुष्टयहुण्डसंस्थानोपघातप्रत्येकसाधारणान्यतररूपनवकक्षेपे तिर्यगानुपूाश्चापनयने पश्चाशद्भवति । अत्र भङ्गा दश, तथाहि-बादरपर्याप्तस्य प्रत्येकसाधारणाभ्यां यशःकीर्त्ययशःकीर्तिभ्यां च चत्वारो भङ्गाः, बादरापर्याप्तस्य प्रत्येक