________________
प्रकृत्युदी
कर्मप्रकृतिः। ॥३५॥
प
ESEDDSCAMERICA
| त्याष्टौ, मनुष्यानधिकृत्य द्विपञ्चाशदधिकानि एकादश शतानि, देवानधिकृत्याष्टौ भङ्गाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया षट्पञ्चा
शति एकोनत्रिंशच्छतानि सप्तदशाधिकानि भङ्गानां भवन्ति । सप्तपञ्चाशति भङ्गानां पञ्चशती एकोननवत्यधिका, तद्यथा-द्वीन्द्रिय | त्रीन्द्रियचतुरिन्द्रियानधिकृत्य प्रत्येकं चत्वारश्चत्वारः प्राप्यन्त इति द्वादश, तिर्यकपञ्चेन्द्रियानधिकृत्य पञ्च शतानि षट्सप्तत्यधिका
नि, तीर्थकरमाश्रित्यक इति । अत्रापि मतान्तरेण तिर्यपञ्चेन्द्रियानधिकृत्य द्विपञ्चाशदधिकानि एकादश शतानि भङ्गानां प्राप्यन्ते, | शेषं तथैवेति तदपेक्षया सप्तपञ्चाशति पञ्चषष्टयधिकानि एकादश शतानि भङ्गानां भवन्ति ॥ २५-२६-२७॥
(उ०)-तदेवमुक्तानि मोहनीयस्योदीरणास्थानानि, अथ नामकर्मगस्तान्याह-एकचत्वारिंशत् , द्विचत्वारिंशत्, ततः पश्चाशदादयः सप्तपञ्चाशत्-पञ्चाशदेकपश्चाशत् द्विपञ्चाशत्रिपश्चाशचतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत्सप्तपश्चाशच्चेति नामकर्मण उदीरणास्थानानि दश भवन्ति । तत्र तैजससप्तकं वर्णादिविंशतिरगुरुलघु स्थिरास्थिरे शुभाशुभे निर्माणमित्येतात्रयस्त्रिंशत्प्रकृतयो ध्रुवोदीरणाः । | तत्र नरगतिपञ्चेन्द्रियजातित्रसबादरपर्याप्तसुभगादेययशःकीर्तिरूपेऽष्टके क्षिप्ते एकचत्वारिंशद्भवति । एतस्य चैकचत्वारिंशद्वर्गस्य | सयोगिकेवली केवलिसमुद्घाते कार्मणकाययोगे वर्तमान उदीरको भवति । एषैव चैकचत्वारिंशज्जिननामसहिता द्विचत्वारिंशद्भवति । | तस्याश्च तीर्थकरकेवली केवलिसमुद्घाते कार्मणकाययोगस्थ उदीरकः । एकचत्वारिंशद्वर्गे औदारिकसप्तकपडन्यतमसंस्थानवर्षभनाराचसंहननोपघातप्रत्येकलक्षणैकादशकक्षेपे द्विपञ्चाषद्भवति । अत्र पद्दभिः संस्थानः पड्भङ्गाः। ते च वक्ष्यमाणसामान्यमनुष्यभङ्गान्तगता द्रष्टव्याः । एवमग्रेऽपि । एनां द्विपञ्चाशतं समुद्घाते औदारिकमिश्रकाययोगस्थः सयोगी केवल्युदीरयति । अत्रैव तीर्थकरनाम | क्षेपे त्रिपश्चाशत् । केवलमिह संस्थानमाद्यमेवाभिधातव्यम् । अस्या उदीरकस्तीर्थकर केवली समुद्घाते औदारिकमिश्रकाययोगे वर्तमानो |
| ॥३५॥