SearchBrowseAboutContactDonate
Page Preview
Page 841
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३७॥ Ga | रेकतरयुगलं यशः कीर्त्ययशःकीत्योरेकतरेत्येता नव प्रकृतयस्त्रयस्त्रिंशद्ध्रुवोदीरणाभिः सह द्विचत्वारिंशद्भवति । एषा चान्तरालगतौ | द्रष्टव्या । अत्र भङ्गाः पञ्च तत्र पर्याप्तकनामोदये सुभगादेय युगलदुर्भगानादेययुगलयशः कीर्त्ययशः कीर्तिपरावर्तनैश्चत्वारो भङ्गाः, अपर्याप्तकनामोदयस्थस्य तु दुर्भगानादेयायशः कीर्तिभिरेक एवेति । इह सुभगादेययोर्दुर्भगानादेययोर्वा मिलितयोर्युगपदेवोदय इति | पञ्चभङ्गयभिधानं । अपरे त्वाहु: - नानयोर्युगपदुदयभावनियमोऽन्यथाऽपि दर्शनात् । ततः पर्याप्तकनामोदये वर्तमानस्य सुभगादेय दुर्भगानादेय यशः कीर्त्ययशः कीर्तिभिरष्टभङ्गी, अपर्याप्तकनामोदये तु दुर्भगानादेयायशः कीर्तिभिरेक एव भङ्गः । सर्वाग्रेण द्विचत्वारिंशति नव भङ्गाः । ततः शरीरस्थस्यौदा रिक सप्तकषडन्यतमसंस्थानषडन्यतम संहननोपघात प्रत्येक लक्षणैकादशकक्षेपे तिर्यगानुपूर्व्याश्चोत्सारणे द्विपञ्चाशत् । तत्र भङ्गानां पञ्चचत्वारिंशं शतं । तथाहि - पर्याप्तस्य षड्भिः संस्थानैः षड्भिः संहननैः सुभगादेयदुर्भगानादेययुगलद्वयेन यशः कीर्त्ययशः कीर्तिभ्यां च परस्परं गुणने भङ्गानां चतुश्चत्वारिंशं शतं, अपर्याप्तस्य चान्त्य संस्थान संहननदुर्भगानादेयायशः कीर्तिभिरेक इति । ये तु सुभगादेय योदुर्भगानादेययोर्वा कंवलयोरप्युदयमिच्छन्ति तन्मतेन भङ्गानां द्विपञ्चाशति द्विशत्येकोननवत्यधिका ज्ञातव्या । तत्र पर्याप्तस्य षड्भिः संस्थानः पड्भिः संहननैः सुभगादुर्भगाभ्यामादेयानादेयाभ्यां यशः कीर्त्ययशकीर्तिभ्यां द्वे शते अष्टा शीत्यधिके, अपर्याप्तस्य तु प्रागुक्तस्वरूप एक इति । ततः शरीरपर्याप्त्या पर्याप्तस्य द्विपञ्चाशति पराघातप्रशस्ता प्रशस्तविहायोगत्यन्यतरप्रक्षेपे चतुःपञ्चाशत् । अत्र च यत्पर्याप्तानां प्राकू चतुश्चत्वारिंशं भङ्गशतमुक्तं, तदेव विहायोगतिद्विकेन द्विगुणितं कर्तव्यं । तथा च | सत्यत्र भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । ततः प्राणापानपर्यात्या पर्याप्तस्योछ्वासक्षेपे पञ्चपञ्चाशत् । अत्र प्रागिव भङ्गानां द्विशत्यष्टाशीत्यधिका, मतान्तरेण तु पञ्चशती षट्सप्तत्यधिका । अथवा शरीरपर्याप्त्या पर्याप्तस्यो प्रकृत्युदीरणा ॥३७॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy