SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥३३॥ ॥ तदेवमुक्तानि नामकर्मण उदीरणास्थानानि । संप्रत्येतान्येव गुणस्थानकेषु दर्शयति- 'गुणिसु'ति नाम्नो नामकर्मणो गुणिषु गुणस्थानेषु मिथ्यादृष्टिप्रभृतिषु सयोगिकेवलिपर्यन्तेषु यथासंख्यं नवादिसंख्यान्युदीरणास्थानानि भवन्ति । तत्र मिथ्यादृष्टेर्नवोदीरणास्थानानि तद्यथा - द्विचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । अमूनि च सर्वाण्यपि मिध्यादृष्टीने केन्द्रियादीनधिकृत्य स्वयं परिभावनीयानि । सासादनसम्यग्दृष्टेरुदीरणास्थानानि सप्त, तद्यथा| द्विचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् द्विपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तरञ्चाशचेति । तत्र द्विचत्वारिंशत् बादरै केन्द्रिय द्वीन्द्रियत्रीन्द्रित्रचतुरिन्द्रियतिर्यक् पञ्चेन्द्रियमनुष्यदेवानां सासादन सम्यग्दृष्टीनामपान्तरालगतौ वर्तमानानामत्रसेया। तथा एकेन्द्रियाणां शरीरस्थानां पञ्चाशत् । देवानां शरीरस्थानामेकपञ्चाशत् । विकलेन्द्रियतिर्यञ्चेन्द्रियमनुष्याणां शरीरस्थानां द्विपञ्चाशत् । देवनैरथिकाणां पर्याप्तानां सासादनसम्यकःवे वर्तमानानां पञ्चपञ्चाशत् । तिर्यक पञ्चेन्द्रियमनुष्यदेवानां पर्याप्तानां षट्पञ्चाशत् । तिर्यकपञ्चेन्द्रि याणामुद्योतवेदकानां पर्याप्तानां सप्तपञ्चाशत् । सम्यग्मिथ्यादृष्टे त्रीण्युदीरणास्थानानि तद्यथा - पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाश| चेति । तत्र देवनरयिकाणां पञ्चपञ्चाशत् । तिर्यग्मनुष्यदेवानां षट्पञ्चाशत् । तिर्यक्पञ्चेन्द्रियाणामुद्योतवेदकानां सप्तपञ्चाशत् । अविरत सम्यग्दृष्टेरटावुदीरणास्थानानि तद्यथा-द्विचत्वारिंशत् एकपञ्चाशत् द्विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् पट्ट पञ्चाशत् सप्तपञ्चाशश्चेति । तत्र नैरयिकदेवतिर्यक्पञ्चेन्द्रियमनुष्याणां द्विचत्वारिंशत् । देवनैरयिकाणामेकपञ्चाशत् । तिर्यक् पञ्चेन्द्रियमनुष्याणां द्विपञ्चाशत् । देवनैरयिकतिर्यङ्मनुष्याणां त्रिपञ्चाशत् । देवनैरयिकपञ्चेन्द्रियवैक्रियतिर्यग्मनुष्याणां चतुःपञ्चाशत् । एतेषामेव पञ्चपञ्चाशदपि । देवतिर्यक्पञ्चेन्द्रियमनुष्याणां पट्पञ्चाशत् । तिर्यक्पञ्चेन्द्रियाणामुद्योतवेदकानां सप्तपञ्चाशत् । देश 2052 प्रकृत्युदीरणा ॥३३॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy