________________
| भङ्गा न प्राप्यन्ते । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपश्चाशद्भवति । अत्रापि स्वमतेन चत्वारो भङ्गाः, मतान्तरे-11 पणाष्टौ । अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपश्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भंगाश्चत्वारो
मतान्तरेणाष्टौ । सर्वसंख्यया चतुःपश्चाशति स्वमतेनाष्टौ भङ्गा मतान्तरेण षोडश । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां | | चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन प्रागिव चत्वारो भंगा मतान्तरेणाष्टौ । अथवा प्राणापानपर्याप्त्या पहै। र्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि स्वमतेन भंगाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया पञ्चपञ्चाशति | स्वमतेनाष्टौ भङ्गा मतान्तरेण तु पोडश । ततो भाषापर्याप्त्या पर्याप्तस्य सुस्वरसहितायां पश्चपश्चाशति उद्योते क्षिप्ते षट्पञ्चाशद्भव| ति । अत्रापि स्वमतेन त एव चत्वारो भङ्गा मतान्तरेणाष्टौ । सर्वसंख्यया देवानां स्वमतेन द्वात्रिंशद्भङ्गा मतान्तरेण चतुःषष्टिः।
नैरयिकाणामुदीरणास्थानानि पञ्च, तद्यथा-द्विचत्वारिंशत् एकपश्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पञ्चपश्चाशचेति । तत्र नरकगतिनरकानुपूज्यौँ पश्चेन्द्रियजातिस्त्रसबादरपर्याप्तदुर्भगानादेयायशःकीय इत्येताना प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशत्संख्याकाभिः सह सम्मिश्रा द्विचत्वारिंशद्भवति । अत्र च सर्वाण्यपि पदानि अप्रशस्तान्येवेति कृत्वा एक एव भङ्गः । ततः शरीरस्थस्य वैक्रियसप्तकं हुंड| संस्थानं उपघातं प्रत्येकमिति दश प्रकृतयः प्रक्षिप्यन्ते, नरकानुपूर्वी चापनीयते, तत एकपश्चाशद्भवति । अत्राप्येक एव भंगः । ततः १७ शरीरपर्याप्त्या पर्याप्तस्य पराघातापशस्तविहायोगत्योः प्रक्षिप्तयोस्त्रिपञ्चाशद्भवति । अत्रापेक एव भंगः। ततः प्राणापानपर्याप्त्या
पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशद् भवति, अत्राप्येक एव भङ्गः। ततो भाषापर्याप्त्या पर्याप्तस्य दुःस्वरे क्षिप्ते पञ्चपञ्चाMOशद्भवति । अत्राप्येक एव भंगः । सर्वसंख्यया नैरयिकाणां पञ्च भङ्गाः ।
SEASONICROme