SearchBrowseAboutContactDonate
Page Preview
Page 831
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः प्रकृत्युदी ॥३२॥ SITORR OGGEDDIDEOS अत्राप्येक एव भङ्गः । ततः प्राणापानपर्याप्त्या पर्याप्तस्योच्छ्वासे क्षिप्ते चतुःपञ्चाशद्भवति । अत्राप्येक एव भंगः । अथवा शरीर| पर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनामि तूदिते चतुःपञ्चाशद्भवति । अत्रापि प्रागिर्वक एव भंगः । सर्वसंख्यया चतुःपश्चा| शति द्वौ भङ्गो । ततो भाषापर्याप्त्या पर्याप्तस्योच्छ्वाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्त पञ्चपञ्चाशद्भवति । अत्रापि प्राग्वदेक एव भङ्गः । अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्राप्येक एव भंगः । सर्वसंख्यया पञ्चपञ्चाशति द्वौ भंगी । ततो भाषापर्याच्या पर्याप्तस्य स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते पदपञ्चाशद्भवति । अत्राप्येक एव भंगः। आहारकशरीरिणः सर्वसंख्यया सप्त भंगाः । तदेवं मनुष्याणां सामान्यवैक्रियशरीर्याहारकशरीरिकेवलिनां भंगाः सर्वसंख्यया त्रयोदश शतानि चतुस्त्रिंशदधिकानि भवन्ति । परमतेन तु षड्विंशतिशतानि पश्चाशदधिकानि । | देवानामुदीरणास्थानानि पद् , तद्यथा-द्विचत्वारिंशत् एकपश्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशञ्चेति । तत्र देवगति| देवानुपूच्यौं पञ्चेन्द्रियजातिस्त्रसनाम बादरनाम पर्याप्तनाम सुभगादेययुगलदुर्भगानादेययुगलयोरेकतरद्युगलं यशःकीर्त्ययशःकीोरेकतरेत्येता नव प्रकृतयो ध्रुवोदीरणाभिस्त्रयस्त्रिंशसंख्याकाभिः सह सम्मिश्रा द्विचत्वारिंशद्भवति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयशाकीर्त्ययश-कीर्तिभिश्चत्वारो भङ्गाः, मतान्तरेण पुनः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यश-कीर्त्ययशः कीर्तिभ्यां चाष्टौ भङ्गाः। ततः शरीरस्थस्य वैक्रियप्तकं समचतुरस्रसंस्थानं उपगात प्रत्येकमित्येता दश प्रकृतयः प्रक्षिष्यन्ते, देवानुपूर्वी चापनीयते, तत एक| पञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन चत्वारो भङ्गा मतान्तरेणाष्टौ । ततः शरीरपर्याप्या पर्याप्तस्य पराघातप्रशस्तविहायोगत्योः प्रक्षिप्तयोस्त्रिपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन चत्वारो भङ्गा मतान्तरेणाष्टौ। देवानामप्रशस्तविहायोगतेरुदयाभावात्तदाश्रिता NCE ॥३२॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy