SearchBrowseAboutContactDonate
Page Preview
Page 830
Loading...
Download File
Download File
Page Text
________________ स्तद्यथा - स्त्रमतेन द्विचत्वारिंशति पञ्च, द्विपञ्चाशति पञ्चचत्वारिंशं शतं चतुःपञ्चाशति द्वे शते अष्टाशीत्यधिके, पञ्चपञ्चा शत्यपि द्वे शते अष्टाशीत्यधिके, पट्पञ्चाशति पञ्च शतानि षट्सप्तत्यधिकानि । परमतेन तु यथाक्रमं ९ । २८९ ॥ ५७६ ॥ ५७६ ॥ १९५२ । वैक्रियमपि कुर्वतां मनुष्याणामुदीरणास्थानानि पञ्च भवन्ति, तद्यथा - एकपञ्चाशत् त्रिपञ्चाशत्, चतुःपञ्चाशत्, पञ्चपञ्चाशत्, पट्पञ्चाशश्चेति । तत्रैकपञ्चाशत्रिपञ्चाशच्च यथा प्राग्वैकि पतिर्यक् पञ्चेन्द्रियाणामुक्तास्तथात्रापि द्रष्टव्याः । चतुःपञ्चाशत्युच्छ्वाससहितायां प्रागिव स्वमतेनं चत्वारो भङ्गा मतान्तरेणाष्टौ । उत्तरवैक्रियं कुर्वतां संयतानामुद्योतनामोदय मागच्छति, नान्येषां ततस्तेन सह चतुःपञ्चाशति प्रशस्त एवैको भङ्गो भवति, संयतानां दुर्भगानादेयायशः कीर्त्यदयाभावात् । सर्वसंख्यया चतुःपञ्चाशति स्वमतेन पञ्च भङ्गाः मतान्तरेण नव । ततो भाषापर्याघ्या पर्याप्तस्योच्छ्वाससहितायां सुस्वरे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव स्वमतेन भंगांश्चत्वारो मतान्तरेणाष्टो । अथवा संयतानां स्वरेऽनुदिते उद्योतनान्मि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव एक एव भङ्गः । सर्वसंख्यया पञ्चपञ्चाशति स्वमतेन पञ्च भङ्गा मतान्तरेण नत्र । पञ्चपञ्चाशति सुस्वरसहितायामुद्योते क्षिप्ते पपञ्चाशद्भवति । तस्यां चैक एव प्रशस्तो भंगः । सर्वसंख्यया वैक्रियमनुष्याणां स्वमतेनैकोनविंशतिभङ्गाः मतान्तरेण पञ्चत्रिंशत् । संप्रत्याहारकं कुर्वतामुदीरणास्थानान्युच्यन्ते - आहार कसं यतानामुदीरणास्थानानि पञ्च तद्यथा - एकपञ्चाशत् | त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् पदपञ्चाशच्चेति । तत्राहारकसप्तकं समचतुरस्र संस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां मनुष्यगतिप्रायोग्यायां द्विचत्वारिंशति प्रक्षिप्यते, मनुष्यानुपूर्वी चापनीयते, तत एकपञ्चाशद्भवति । केवलमिह सर्वाण्यपि पदानि प्रशस्तान्येवेति कृत्वा एक एव भंगः । शरीरपर्याप्त्या पर्याप्तस्य प्रशस्तविहायोगतिपराघातयोः प्रक्षिप्त यो त्रिपञ्चाशद्भवति । 22
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy