________________
कर्मप्रकृतिः
मङ्गलादि०
संक्रमय्य तासामुदयावलिकागतं दलिकं नाम्न उदयमागतासु प्रकृतिषु स्तिवुकसंक्रमेण प्रक्षिप्य तद्वयपदेशेनानुभवति । स्त्यानदित्रिकमप्यादौ दर्शनावरणचतुष्टये गुगसंक्रमेण संक्रमपति । तत उदयावलिकागतं स्तिबुकसंक्रमेण संक्रमयति । एवमष्टौ कषायान हास्यादिषट्कं पुरुषवेदं संज्वलनक्रोधादित्रिकमुत्तरोत्तरप्रकृतिमध्ये प्रक्षिपति, तत एताः सर्वा अप्यनुदयवत्यः॥
वक्ष्यमाणगभीरार्थनीरराशिप्रवेशकृत् । कर्माष्टकस्वरूपस्य, नौरिवेयं प्ररूपणा ॥ तदेवमुक्तं सप्रपञ्चं कर्माष्टकम् । तस्य बन्धसंक्रमादिकारणभृतं करणानां वीर्यविशेषरूपाणामष्टकं 'करणाष्टकं -बन्धनादि वक्ष्यमाणम, | तथा कर्मपुद्गलानां यथास्थितिबद्धानामबाधाकालक्षयात्संक्रमापवर्तनादिकरणविशेषाद्वोदयसमयप्राप्तानामनुभवन मुदयः', तेषामेव बन्धसंक्रमाभ्यां लब्धात्मलाभानां निर्जरगसंक्रमकृतस्वरूपप्रच्युत्यभावः 'सता' । इह करणाष्टकोदयसत्ता अभिधेयाः। तत्परिज्ञनं श्रोतुरनन्तरपयोजनं ग्रन्थकर्तुश्च परानुग्रहः, परम्परप्रयोजनं तूभयोरपि मोक्षावाप्तिः । सम्बन्धस्तु हेतुहेतुमद्भावलक्षगः-प्रकरणमिदं करणादिज्ञानहेतुः, तज्झानं च हेतुमदिति । अधिकारी चात्र तत्चबुभुत्सुर्मुमुक्षुर्वा ॥१॥
(चू० अवत०)-पुवं करणाणि उद्दिवागि, ताणि णिदिसिज्जति, तं जहा(म० अवत०) तत्र 'यथोद्देशं निर्देश इतिन्यायाप्रथमतः करणाष्टकमभिधिन्सुराह(उ० अवत०)-तत्र 'यथोद्देशं निर्देश' इत्यादौ करणाष्टकं प्रतिपिपादयिषुराह
बंधण १ संकमणु २ वट्टणा य ३, अववट्टणा ४ उदीरणया ५। उवसामणा ६ निधत्ती ७ निकायणा ८ च त्ति करणाई ॥२॥
Dausfassa
॥१७॥