SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ननपञ्चकाद्यजातिचतुष्टयातपोद्योताप्रशस्तविहायोगतिस्थिरशुभयशाकीयःस्थावरदशकं च । एता हि(४१)जघन्यतः समयमात्रं वध्यः न्ते, उत्कर्षतोऽन्तर्मुहूर्त, परतस्तु निजबन्धहेतुसद्भावेऽपि तथास्वाभाव्यात्तद्योग्याध्यवसायपरावृत्त्या नियमात्प्रतिपक्षप्रकृतयो वध्यन्त | इति सान्तरा उच्यन्ते । यासां जघन्यतः समयमानं बन्ध उत्कर्षतस्तु समयादारभ्य नैरन्तर्येणान्तर्मुहूर्त्तस्योपर्यपि कालमसङ्खथेयं | यावत्ताः सान्तरनिरन्तरबन्धाः,अन्तर्मुहुर्तमध्येऽपि सान्तराश्च निरन्तराश्चेतिकृत्वाऽन्तर्मुहर्त्तमध्यविच्छिन्नबन्धतदुपरिविच्छिन्नबन्धोभयवृत्तिजातिमत्य इति यावत्, ताश्च समचतुरस्रं वज्रर्षभनाराचं पराघातोच्छ्वासौ पुरुषवेद: पश्चेन्द्रियजातिः सातवेदनीयं शुभविहायोगतिक्रियौदारिकसुरमनुजतिर्यग्गोत्रद्विकानि सुस्वरसौभाग्यादेयलक्षणत्रिकं त्रसचतुष्कं चेति सप्तविंशतिः । एता हि जघन्यतः समयमानं बध्यन्त इति सान्तराः , उत्कर्षतस्तु अनुत्तरसुरादिभिरसंख्येयमपि कालं बध्यन्त इत्यन्तर्मुहर्त्तमध्ये व्यवच्छेदाभावान्निरन्तरा इति । जघन्येनापि या अन्तर्मुहूर्त यावन्नैरन्तर्येण बध्यन्ते ता निरन्तरबन्धाः, निर्गतमन्तरमन्तर्मुहूर्त्तमध्ये व्यवच्छेदलक्षणं यस्य तादृशो बन्धो यासामिति व्युत्पत्तेः, अन्र्मुहुर्तमध्याविच्छिन्नबन्धवृत्तिजातिमत्य इति यावत् , ताश्च ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणनवककषायपोडशकमिथ्यात्वभयजुगुप्सागुरुलघुनिर्माणतैजसकामणोपघातवर्णादिचतुष्टयरूपाःसप्तचत्वारिंशद्धृवबन्धिन्यो जिननामायुश्चतुष्टयं चेति द्विपश्चाशत् । एतासां बन्धो ह्यन्तर्मुहूर्तमध्ये न विच्छिद्यत इति ।। ____ यासां विपाकोदये प्रवर्त्तमाने सङ्क्रमत उत्कृष्टं स्थितिसत्कर्म लभ्यते, न बन्धतः, ता उदयसक्रमोत्कृष्टाः, ताश्च मनुजगतिः सातवेदनीयं सम्यक्त्वं स्थिरादिषट्कं हास्यादिषट्कं वेदत्रिकं शुभविहायोगतिराद्यानि पञ्च संहननानि पञ्च संस्थानानि उच्चैर्गोत्रं चेति त्रिंशत । आसां हि प्रकृतीनामुदयप्राप्तानां या विपक्षभूता नरकगत्यसातवेदनीयमिथ्यात्वाद्याः प्रकृतयस्तासामुत्कृष्टां स्थिति बद्ध्वा |
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy