________________
कर्मप्रकृतिः ॥३०॥
SONGCDase
दीरणाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशदपान्तरालगतौ वर्तमानस्य वेदितव्या । अत्र च भंगाः पञ्च । तत्र पर्याप्तकनामोदये वर्तमानस्य सुभगादेययुगलदुर्भगानादेययुगलयश-कीर्त्ययशःकीर्तिभिश्चत्वारो भंगाः, अपर्याप्तकनामोदये वर्तमानस्य तु प्रकृत्युदीदुर्भगानादेयायशःकीर्तिभिरेक एव भंगः । इह सुभगादेये दुर्भगानादेये वा युगपदुदयमायातः । तत उदीरणापि युगपदेवेति पञ्चैव
रणा भंगाः । अपरे पुनराहुः सुभगादेययोदुर्भगानादेययोर्वा नैकान्तेन युगपदुदयभावनियमः, अन्यथापि दर्शनात् । ततः पर्याप्तकना-1 मोदये वर्तमानस्य सुभगदुर्भगादेयानादेययशाकीर्त्ययश-कीर्तिभिरष्टौ भंगाः, अपर्याप्तकनामोदये वर्तमानस्य तु दुर्भगानादेयायशः-12 कीर्तिभिरेक इति सर्वसंख्यया द्विचत्वारिंशति नव । ततः शरीरस्थस्यौदारिकसप्तकं षण्णां संस्थानानामेकतमत् संस्थानं षण्णां संहननानामेकतमत्संहननं, उपघातं, प्रत्येकनामेत्येकादशकं प्रक्षिप्यते तिर्यगानुपूर्वी चापनीयते ततो द्विपञ्चाशद्भवति । अत्र भंगानां पञ्चचत्वारिंशं शतं, तद्यथा-पर्याप्तकस्य पद्भिः संस्थानः पद्भिः संहननैः सुभगादेयदुर्भगानादेययुगलाभ्यां यशःकीर्त्ययश-कीर्ति-1 भ्यां च भंगानां चतुश्चत्वारिंशं शतं, अपर्याप्तस्य च हुंडसंस्थानसेवार्तसंहननदुर्भगानादेयायशःकीर्तिभिरेक इति । ये पुनः सुभगादेययोर्दुर्भगानादेययोर्वा केवलाकेवलयोरप्युदयमिच्छन्ति तन्मतेन द्विपञ्चाशति भंगानां द्वे शते एकोननवत्यधिके वेदितव्ये । तत्र | पर्याप्तस्य पद्भिः संस्थानः षभिः संहननैः सुभगदुर्भगाभ्यामादेयानादेयाभ्यां यशःकीर्त्ययश-कीर्तिभ्यां च भङ्गा द्वे शते अष्टाशीत्य|धिके, अपर्याप्तकस्य तु प्रागुक्तस्वरूप एक इति । तस्यामेव द्विपञ्चाशति शरीरपर्याप्या पर्याप्तस्य पराघाते प्रशस्ताप्रशस्तान्यतरविहायोगतौ च प्रक्षिप्तायां चतुःपञ्चाशद्भवति । अत्र पर्याप्तानां प्राक् चतुश्चत्वारिंशं शतं भङ्गकानामुक्तं, तदेव विहायोगति
॥३०॥ द्विकगुणितमवगन्तव्यम् । तथा च सत्यत्र भङ्गानां वे शते अष्टाशीत्यधिके भवतः। मतान्तरेण पुनः पञ्चशतानि षट्सप्तत्यधिकानि ।।