________________
GEEDICICESSORDSSS
ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव भङ्गानां द्वे शते अष्टाशीत्यधिके, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । अथवा शरीरपर्याप्या पर्याप्तस्योच्छ्वासेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशद्भवति । अत्रापि | भङ्गानां द्वे शते अष्टाशीत्यधिके, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । सर्वसंख्यया पञ्चपञ्चाशति स्वमतेन भङ्गकानां पञ्च 6 | शतानि पट्सप्तत्यधिकानि, मतान्तरेण तु द्विपश्चाशदधिकानि एकादश शतानि । ततो भाषापर्याप्या पर्याप्तस्य सुस्वरदुःस्वरयोरन्यतरस्मिन् क्षिप्ते षट्पञ्चाशद्भवति । तत्र खमतचिन्तायां ये उच्छ्वासेन द्वे शते अष्टाशीत्यधिके भङ्गकानां प्राक् लब्बे ते इह स्वरदिकेन गुण्यते, ततो लब्धानि पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण पुनरिह द्विपश्चाशदधिकान्येकादश शतानि भङ्गकानां भवन्ति । अथवा प्राणापानपर्याप्या पर्याप्तस्य खरेऽनुदिते उद्योतनान्मि तूदिते षट्पञ्चाशद्भवति । अत्र च स्वमतचिन्तायां प्रागिव द्वे शते अष्टाशीत्यधिक भङ्गकानां, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । सर्वसंख्यया स्वमतेन षट्पञ्चाशति भङ्गा अष्टौ शतानि चतुःपट्यधिकानि, मतान्तरेण सप्तदश शतान्यष्टाविंशत्यधिकानि । ततः स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि प्रक्षिप्ते सप्तपश्चाशद्भवति । अत्र ये प्राक् खरसहितायां षट्पश्चाशति भङ्गा अभिहिताः स्वमतेन पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण द्विपञ्चाशदधिकान्येकादश शतानि, त एवात्रापि द्रष्टव्याः। तथा तेषामेव तिर्यपश्चेन्द्रियाणां वैक्रियं कुर्वतामुदीरणास्थानानि पञ्च भवन्ति । तद्यथा-एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् पट्पञ्चाशञ्चेति । तत्र वैक्रियसप्तकं समचतुरस्रसंस्थानं उपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां तिर्यपञ्चेन्द्रियप्रायोग्यायां द्विचत्वारिंशति प्रक्षिप्यते, तिर्यगानुपूर्वी चापनीयते, तत एकपञ्चाशद्भवति । अत्र सुभगादेययुगलदुर्भगानादेययुगलयश-कीर्त्ययशःकीर्तिपर्याप्तपदैश्चत्वारो भङ्गाः, मतान्तरेण पुनः सुभगदुर्भगाभ्यामा -