________________
कर्मप्रकृतिः ॥२९॥
SACARE
प्रकृत्युदी.
। सबसख्यया
रणा
| रस्य प्रत्येकसाधारणयशकीर्त्ययश-कीर्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येकसाधारणाभ्यामयशःकी, सह द्वौ। बादरवायुकायिकस्य च वैक्रियं कुर्वतः शरीरपर्याप्या पर्याप्तस्य पराघाते.क्षिप्ते प्रागुक्ता पश्चाशत् एकपञ्चाशद्भवति । अत्र च प्राग्वदेक एव भङ्गः । सर्वसंख्यया चैकपश्चाशति सप्त भङ्गाः । ततः प्राणापानपर्याप्या पर्याप्तस्योच्छ्वासे क्षिप्ते द्विपञ्चाशद्भवति । अत्रापि भङ्गः प्राग्वत् षट् । अथवा शरीरपर्याप्त्या पर्याप्तस्योच्छ्वासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन् उदिते द्विपञ्चाशद् भवति। अत्रापि भङ्गाः षट्, तद्यथा-बादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयश-कीर्त्ययश-कीर्तिपदैवत्वारः, आतपसहितस्य प्रत्येकयशःकीर्त्ययश-कीर्तिपदैवौं भङ्गो। बादखायुकायिकस्य च वैक्रियं कुर्वतः प्राणापानपर्याच्या पर्याप्तस्योप्छ्वासे क्षिप्ते प्रागुक्ता एकपञ्चाशत् द्विपञ्चाशद्भवति । तत्र च प्राग्वदेक ४ एव भङ्गः। तैजसवायुकायिकयोर्हि आतपोद्योतयश-कीर्तीनामुदयाभावादुदीरणा न भवति, ततस्तदाश्रिता भङ्गा अत्र न प्राप्यन्ते । सर्व
संख्यया द्विपञ्चाशति भङ्गास्त्रयोदश । तथा प्राणापानपर्याच्या पर्याप्तस्योच्छ्वाससहितायां द्विपञ्चाशति आतपोद्योतयोरन्यतरस्मिन् क्षिप्ते त्रिपञ्चाशद्भवति । एत्र भंगाः षट् ये प्रागातपोद्योतान्यतरसहितायां द्विपश्चाशत्यभिहिताः । सर्वसंख्यया चैकेन्द्रियाणां भङ्गा द्विचत्वारिंशत् ।
द्वीन्द्रियाणामुदीरणास्थानानि षट्, तद्यथा-द्विचत्वारिंशत् द्विपश्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूयौँ द्वीन्द्रियजातिवसनाम बादरनाम पर्याप्तापर्याप्तयोरेकतर दुर्भगमनादेयं यशाकीर्त्ययशःकीयोरेकतरेत्येता नव प्रकृतयः प्रागुक्ताभिस्त्रयस्त्रिंशत्संख्याकाभिधंवोदीरणाभिः सह द्विचत्वारिंशद्भवति । एषा च द्विचत्वारिंशद-15 पान्तरालगतौ वर्तमानस्यावसेया । अत्र च भङ्गास्त्रयः, तद्यथा-अपर्याप्तकनामोदये वर्तमानस्यायशाकीर्त्या सहको भङ्गः, पर्याप्तकना
XDROINDArkeeks
ONSERICC
॥२९॥