________________
कर्मप्रकृतिः
मङ्गलादि.
॥१३॥
DOKANATIONAL
क्षीरखण्डादिरसोपमोऽशुभप्रकृतीनां तु निम्बघोषातक्यादिरसोपमः स्वाभाविक एकस्थानक उच्यते । द्वयोः कर्षयोरावर्तितयोर्य एकः | कर्षोऽवशिष्यते तदुपमो द्विस्थानकः त्रयाणां कर्षाणामावर्त्तितानां य एकः कर्षोऽवशिष्यते तदुपमस्त्रिस्थानकः। चतुर्णा कर्षाणामाव
तने कृते सत्युद्धरितैककर्षापमश्चतुःस्थानकः । एकस्थानकादिरसा द्विस्थानकादिरसा इह यथोत्तरमनन्तगुणा द्रष्टव्याः । अत्र च मतिश्रुतावधिमनःपर्यायज्ञानावरणानि चक्षुरचक्षुरवधिदर्शनावरणानि पुरुषवेदश्चत्वारः संज्वलनाः पञ्चविधमन्तरायं चेति सप्तदश प्रकृतय एकद्वित्रिचतुःस्थानकपरिणताः प्राप्यन्ते बन्धमधिकृत्य । तत्र यावन्न श्रेणिप्रतिपत्तिस्तावदासां सप्तदशप्रकृतीनां यथाध्यवसायं द्विस्थानकस्य त्रिस्थानकस्य चतुःस्थानकस्य वा रसस्य बन्धः । श्रेणिप्रतिपत्तौ त्वनिवृत्तिवादराद्धायाः सङ्खथेयेषु भागेषु गतेषु तदनन्तरमेतासामशुभत्वादत्यन्तविशुद्धाध्यवसाययोगेनैकस्थानकस्यैव रसस्य बन्ध इत्येता बन्धमधिकृत्य चतुःस्थानपरिणताः प्राप्यन्ते। शेषास्तु शुभा अशुभा वा द्विस्थानकरसास्त्रिस्थानकरसाश्चतुःस्थानकरसाश्च प्राप्यन्ते, न तु कदाचनाप्येकस्थानकरसाः। यत उक्तसप्तदशव्यतिरि|क्तानां हास्याद्यानामशुभप्रकृतीनामेकस्थानकरसवन्धयोग्या शुद्धिरपूर्वकरणप्रमत्ताप्रमत्तानां न भवत्येव, यदा त्वेकस्थानकरसबन्ध| योग्या परमप्रकर्षप्राप्ता शुद्धिरनिवृत्तिबादराद्धायाः सङ्खयेयेभ्यो भागेभ्यः परतो जायते तदा बन्धमेव न ता आयान्तीति न तासामे
कस्थानको रसः। न च यथा श्रेण्यारोहेऽनिवृत्तिबादराद्धायाः सङ्ख्थेयेषु भागेषु गतेषु परतोऽतिविशुद्धत्वान्मतिज्ञानावरणादीनामेक- 11 | स्थानकरसबन्धस्तथा क्षपकश्रेण्यारोहे सूक्ष्मसंपरायस्य चरमद्विचरमादिसमयेषु वर्तमानस्यातीव विशुद्धत्वात्केवलद्विकस्य संभवबन्धस्यैकस्थानकरसबन्धसंभवः कथं न भवतीति शङ्कनीयं, स्वल्पस्यापि केवलद्विकरसस्य सर्वघातित्वात् , सर्वघातिनां च जघन्यपदेऽपि | द्विस्थानकरसस्यैव संभवात् । शुभानामपि प्रकृतीनां मिथ्यादृष्टिः संक्लिष्टो नैकस्थानकरसं बध्नाति, मनाविशुध्यमान एव तद्बन्धसं
॥१३॥