SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ भवाद् , अतिसंक्लिष्टे मिथ्यादृष्टौ नरकगतिप्रायोग्या वैक्रियतजसाद्याः शुभप्रकृतयो बन्धमायान्ति, तासामपि तथास्वाभाव्यात् जघन्यतोऽपि द्विस्थानक एव रसो बन्धमायाति, नकस्थानक इति । ननूत्कृष्टस्थितिमात्रं संक्लेशोत्कर्षेण भवति, ततो यैरेवाध्यवसायैः शुभ| प्रकृतीनामुत्कृष्टा स्थितिर्भवति तैरेवैकस्थानकोऽपि रस किं न स्यादिति चेत्, शृणु-इह हि प्रथमस्थितेरारभ्य समयवृद्धयाऽसङ्खयेयाः स्थितिविशेषा भवन्ति, एकैकस्यां च स्थितावसङ्कथेया रसस्पर्द्धकसङ्घातविशेषाः, तत उत्कृष्टस्थितौ बध्यमानायां प्रतिस्थितिविशेषमसङ्खोया ये रसस्पर्द्धकसङ्घातविशेषास्ते तावन्तो द्विस्थानकरसस्यैव घटन्ते, नकस्थानकस्येति न शुभप्रकृतीनामुत्कृष्टस्थितिबन्धेऽप्येकस्थानकरसबन्धः। उक्तं च-"उक्कोसठिईअज्झवसाणेहिं एगठाणिओ होही । सुभियाण तं न जं ठिइअसङ्खगुणियाओ अणुभागा॥१॥" अत्र सर्वघातिनीनां देशघातिनीनां वा प्रकृतीनां यानि चतुःस्थानकरसानि त्रिस्थानकरसानि वा स्पर्धकानि तानि नियमतः सर्वघातीनि | भवन्ति। द्विस्थानकरसानि तु सर्वघातिनीनां सर्वघातीन्येव, देशघातिनीनां तु कानिचित्सर्वघातीनि कानिचिद्देशघातीनीत्येवं मिश्राणि । एकस्थानकरसानि च देशघातिनीनामेव भवन्ति, तानि च देशघातीन्येव । अत्र च देशघातिनामवधिज्ञानावरणादीनां सर्वधातिरसस्पधकेषु विशुद्धाध्यवसायतो देशघातिरूपतया परिणमनेन निहतेषु, देशघातिरसस्पर्द्धकेषु चातिस्निग्धेष्वल्परसीकृतेषु तदन्तर्गतकतिपयरसस्पर्द्धकभागस्योदयावलिकाप्रविष्टस्य क्षये शेषस्य च विपाकोदयविष्कम्भलक्षणे उपशमे जीवस्यावधिमनःपर्यायज्ञानचक्षुर्दर्शनादयो गुणाः क्षायोपशमिकाः प्रादुर्भवन्ति, तदाऽवधिज्ञानावरणादीनां कतिपयदेशघातिरसस्पर्द्धकक्षयोपशमात्कतिपयदेशघातिरसस्पर्धकानां चोदयात क्षयोपशमानुविद्ध औदयिको भावः केवलः प्रवर्तते । मतिश्रुतावरणाचक्षुर्दर्शनावरणान्तरायप्रकृतीनां तु सदैव देशघातिनामेव रसस्पर्द्धकानामुदयो न सर्वघातिनां, ततः सर्वदेव तासामौदयिकक्षायोपशामको भावौ संमिश्री प्राप्येते, न केवल औदयिकः । परिणमनेन निविष्कम्भलक्षणे उपयोपशमात्कातिदेव देशघातिना का
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy