________________
तदेवमुक्तमुत्तरप्रकृतीनामुत्कृष्टपदे प्रदेशाग्राल्पबहुत्वम् , सम्प्रति जघन्यपदे तदभिधीयते-तत्र सर्वस्तोकं जघन्यपदे प्रदेशाग्रं केवलज्ञा-१३ नावरणीयस्य, ततो मनःपर्यवज्ञानावरणीयस्यानन्तगुणम् , ततोऽवधिज्ञानावरणीयस्य विशेषाधिकम् , ततः श्रुतज्ञानावरणीयस्य विशेषाधिकम् , ततोऽपि मतिज्ञानावरणीयस्य विशेषाधिकम् । तथा दर्शनावरणीये सर्वस्तोकं जघन्यपदे प्रदेशाग्रं निद्रायाः, ततः प्रचलाया विशेषाधिकम् , ततो निद्रानिद्राया विशेषाधिकम् , ततः प्रचलाप्रचलाया विशेपाधिकम् , ततः स्त्यानःविशेषाधिकम् , ततः केवलदर्श| नावरणस्य विशेषाधिकम् , ततोऽवधिदर्शनावरणस्थानन्तगुणम् , ततोऽचक्षुर्दर्शनावरणस्य विशेषाधिकम् , ततोऽपि चक्षुर्दर्शनावरणीयस्य | विशेषाधिकम् । तथा मोहनीये सर्वस्तोकं जघन्यपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरणस्य क्रोधस्य विशेषा१६ धिकम् , ततोऽप्रत्याख्यानावरणमायाया विशेषाधिकम् , ततोऽप्रत्याख्यानावरणलोभस्य विशेषाधिकम् , तत एवमेव प्रत्याख्यानावरण
मानक्रोधमायालोभानां यथोत्तरं विशेषाधिकम् , एवमेवानन्तानुबन्धिमानक्रोधमायालोभानां यथोत्तरं विशेषाधिकं वक्तव्यम् , ततो मिथ्या| त्वस्य विशेषाधिकम् , ततो जुगुप्साया अनन्तगुणम् , ततो भयस्य विशेषाधिकम् , ततो हास्यशोकयोर्विशेषाधिकम् , स्वस्थानेतु तयोः परस्परं | तुल्यम्, ततोरत्यरत्योर्विशेषाधिकम् , स्वस्थानेतु तयोरपि परस्परं तुल्यम्, ततोऽन्यतमवेदस्य विशेषाधिकम् , ततः संज्वलनमानक्रोधमाया
लोभानां यथोत्तरं विशेषाधिकम् । तथायुषि सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यग्मनुष्यायुषोः, स्वस्थाने परस्परं तुल्यम्, ततो देवनार| कायुपोरसंख्येयगुणम् , स्वस्थाने परस्परं तुल्यम् । तथा नाम्नि गतौ सर्वस्तो जघन्यपदे प्रदेशाग्रं तिर्यग्गतेः, ततो विशेषाधिकं मनुजगतेः, ततो देवगतेरसंख्येयगुणम् ,ततो निरयगतेरसंख्येयगुणम् । तथा जातौ सर्वस्तोर्क चतुगां द्वीन्द्रियादिजातिनानाम् , तत एकेन्द्रियजाते-11 विशेषाधिकम् । तथा शरीरनाम्नि सर्वस्तोकमौदारिकशरीरनाम्नः, ततस्तैजसशरीरनाम्नो विशेषाधिकम् , ततः कार्मणशरीरनाम्नो विशे