SearchBrowseAboutContactDonate
Page Preview
Page 788
Loading...
Download File
Download File
Page Text
________________ MADITONYARIODEODISSORROL | उस्सासस्स सराण य पज्जत्ता आणपाणभासासु । सव्वण्णुणुस्सासो भासा वि य जान रुज्झंति ॥१५॥ | (चू०) उस्सासणामस्स आणापाणुपज्जत्तीए पजत्ता सवे उदीरगा । सुस्सरदुस्सराणं भासापज्जत्तीए पज्जत्तगा उदीरगा। 'सवण्णूणुस्सासो भासा वि य जा ण रुझंति'-सव्वण्णूणं केवलीणं ऊस्सासभासातो जाव ण णिरुज्झति ताप उदीरेति, परत्य उदयाभावातो णत्थि उदीरणा ॥१५॥ (मलय०)–'उस्सासस्स' ति । उच्छ्वासस्वरशब्दयोरानप्राणभाषाशब्दाभ्यां सह यथासंख्येन योजना । सा चैवं-उच्छ्वासनाम्नः प्राणापानपर्याप्त्या पर्याप्ताः सर्वेऽप्युदीरकाः । 'सराण य' त्ति-द्वित्वेऽपि बहुवचनं प्राकृतत्वात् , ततः स्वरयोः सुस्वरदुःस्वरयोः प्रागुक्ता उदीरकाः सर्वेऽपि भाषापर्याप्त्या पर्याप्ता द्रष्टव्याः। यद्यपि स्वरयोः प्रागेवोदीरका उक्तास्तथापि.ते भाषापर्याप्त्या पर्याप्ता एवोदीरका वेदितव्या इति विशेषोपदेशनार्थ पुनरुपादानम् । तथा सर्वज्ञानां-केवलिनामुच्छ्वासभाषे यावन्नाद्यापि निरोधमुपगच्छतस्तावदुदीर्येते, तन्निरोधानन्तरं तूदयाभावान्नोदीरणा भवति ॥१५॥ (उ०)-उच्छ्वासस्य स्वरयोश्वानप्राणभाषापर्याप्तिभ्यां पर्याप्ताः सर्वेऽप्युदीरकाः । यथासंख्येन योजनात् सप्तम्याश्च तृतीयार्थत्वात उच्छ्वासनाम्नः प्राणापानपर्याप्त्या पर्याप्ताः सुस्वदुःस्वरयोश्च भाषापर्याप्त्या पर्याप्ता उदीरका द्रष्टव्या इत्यर्थः । यद्यपि स्वरयोरुदीरकाः प्रागवोक्तास्तथापि भाषापर्याप्त्या एवोदीरका इति विशेषोद्योतनाय पुनरुपादानम्। तथा सर्वज्ञानां--केवलिनामुच्छ्वासभाषे यावन्न निरोधमुपगच्छतस्तावदुदीर्येते, तन्निरोधानन्तरं तूदयाभावादेव नोदीरणा ॥१५॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy