SearchBrowseAboutContactDonate
Page Preview
Page 777
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः ॥ ५॥ MASC.X | द्रष्टव्यम् । तथा द्वयोर्नामगोत्रयोर्योग्यन्ताः सयोगिकेवलिपर्यवसानाः सर्वेऽप्युदीरकाः । इतिशब्दो भिन्नक्रमो गाथान्ते योजनीयः, स च मूलप्रकृत्युदीरणाभिधानपरिसमाप्तिद्योतकः ॥ ४ ॥ इदाणिं उत्तरपगतीणं भण्णइ विग्घावरणधुवाणं छउमत्था जोगिणो उ धुवगाणं । उवघायस्स तणुत्था तणुकिट्टीणं तणुरागा ॥५॥ (०) - अंतरातियणाणावरणदंसणावरण चउक्का एते धुवा, एयासिं चोदसण्हं पगतीणं सव्वे छउमत्था उदीरगा । 'जोगिणो तु धुवगाणं ति, सहजोगेण जोगिणा, धुवगाणं ति-धुवोदतीणं तेतीसाए पुग्वृत्ताणं सव्वे जोगिणो उदीरगा । 'उवघायस्स तणुत्था' - उवघातस्स सरीरणामाए उदए वट्टमाणस्स सव्वे उदीरगा । 'तणुकिट्टीणं' तिसुहुमकिट्टीणं 'तणुगरागो' त्ति - चरिमावलिगं भोत्तृणं सव्वे सुहुमरागा उदीरगा ॥ ५ ॥ (मलय ० ) - तदेवं मूलप्रकृत्युदीरणास्वाम्युक्तः । साम्प्रतमुत्तरप्रकृत्युदीरणास्वामिनमाह - 'विग्ध' त्ति । 'विग्घ' त्ति-अन्तरायं, ततोऽ| न्तरायपञ्चकज्ञानावरणपञ्चकदर्शनावरणचतुष्टय रूपाणां चतुर्दशानां ध्रुवोदयप्रकृतीनां सर्वे छंस्था उदीरकाः । तथा 'घुवगाणं' ति-नामध्रुवोदयानां त्रयस्त्रिंशत्संख्यानां तैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणरूपाणां योगिनः - सयोगिकेवलिपर्यन्ता उदीरकाः । उपघातनाम्नस्तु तनुस्थाः शरीरस्थाः - शरीरपर्याप्त्या पर्याप्ता उदीरकाः । तनुकिट्टीनां सूक्ष्मकिट्टीनां, अर्थात् लोभसत्कानां तनुकरागाः - सूक्ष्मसम्पराया यावच्चरमावलिका न भवति तावदुदीरकाः ||५|| ( उ० ) - तदेवं मूलप्रकृत्युदीरणास्वाम्यभिहितः, अथोत्तरप्रकृत्युदीरणास्वामिनमाह - विघ्नाः पञ्चाऽन्तरायप्रकृतयः, आवरणानि 52252252 प्रकृत्युदीरणा ॥ ५ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy