SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥ २ ॥ yam रासिंपि त्ति- दसुत्तरस्स उत्तरपगतिस्तस्स सादितअधुवा एव उदीरणा । कहं ? भण्णइ-अधुवोदयत्तातो । कयरं दसुत्तरं पगतिसतं ? भण्णइ-पंचणाणावरणा चत्तारि दंसणावरण मिच्छत्तं तेजतिगसत्तगं वण्णातिवीस अगुरु| लहुगं थिराधिरसुभासुभा णिमेण पंचअंतरातिगाए ततो अडयालीसं मोत्तूणं सेसं दसुत्तरं पगतिसतं ॥ २ ॥ (मलय ० ) - तदेवमुक्तौ लक्षणभेदौ । सम्प्रति साद्यनादिप्ररूपणा कर्त्तव्या । सा च द्विधा - मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयामाह - 'मूलपगईसु 'ति । मूलप्रकृतिषु मध्ये पञ्चानां मूलप्रकृतीनां ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणामुदीरणा 'त्रिधा' - त्रिप्रकारा, तद्यथा - अनादिधुवाऽधुवा च । तथाहि ज्ञानावरणदर्शनावरणान्तरायाणां यावत् क्षीणमोहगुणस्थानकस्य समयाधिकावलिकाशेषो न भवति तावत्सर्वजीवानामुदीरगाऽवश्यंभाविनी । नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत् । तत एषामनादिरुदीरणा, ध्रुवाऽभव्यानां, अध्रुवा भव्यानाम् । तथा द्वयोर्वेदनीयमोहनीययोरुदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्घुवाऽध्रुवा च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं यावदुदीरणा, न परतः । मोहनीयस्य सूक्ष्मसंपरायगुणस्थानकं यावत् न परतः । ततोऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशान्तमोहगुणस्थानकाच्च प्रतिपततो मोहनीयस्योदीरणा सादिः, तत्स्थानमप्राप्तस्य पुनरनादिः ध्रुवाधुवे पूर्ववत् । आयुषः पुनरुदीरणा सादिरध्रुवा च । तथाहि - आयुषः पर्यन्तावलिकायां नियमादुदीरणा न भवति ततोध्रुवा, पुनरपि परभवोत्पत्तिप्रथमसमये प्रवर्तते ततः सादिरिति । तदेवं कृता मूलप्रकृतिषु साधनादिप्ररूपणा । सम्प्रत्युत्तरप्रकृतिषु तां चिकीर्षुराह - 'दसुत्तरसउत्तरासिं पि,' सादिरध्रुवा चेत्यनुवर्तते । उत्तरासामपि उत्तरप्रकृतीनामपि - दशोत्तरशतसंख्यानां पञ्चविधज्ञानावरणदर्शनावरणचतुष्टयमिथ्यात्वतैजस सप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणान्तरायपञ्चकरूपाष्टाचत्वारिंशद्वर्जानां सर्वशे 2555a8 प्रकृत्युदी रणा ॥ २ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy