________________
RSS
पप्रकृतीनामित्यर्थः । उदीरणा द्विधा, तद्यथा-सादिरधुवा च । सा च साद्यध्रुवताऽध्रुवोदयत्वादेव सिद्धा ॥२॥ * (उ०)-तदेवमुक्तौ लक्षणभेदौ, अथ साधनादिप्ररूपणा कर्तव्या । सा च द्विधा-मूलोत्तरप्रकृतिविषयभेदात् । तत्र प्रथमतो मूल13 प्रकृतिविषयां तामाह-मूलप्रकृतिषु मध्ये पश्चानां ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणामुदीरणा 'त्रिधा'-त्रिप्रकारा, तद्यथा
अनादिर्धवाऽधुवा च । तथाहि-ज्ञानावरणदर्शनावरणान्तरायाणां यावत्क्षीणमोहगुणस्थानकस्य समयाधिकाबलिका नावशिष्यते, नामगोत्रयोस्तु यावत्सयोगिचरमसमयस्तावत्सर्वजीवानामुदीरणाऽवश्यंभाविनीति अनादिरेपामुदीरणा । धुवाऽभव्यानां, अधुवा भव्याना| मिति । तथा द्वयोर्वेदनीयमोहनीययोरुदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्बुवाऽधुवा च । तत्र वेदनीयस्य प्रमत्तगुणस्थानकं याव-13 शादीरणा, न परतः । मोहनीयस्य सूक्ष्मसम्परायगुणस्थानकं यावन्न परतः। ततोऽप्रमत्तादिगुणस्थानकेभ्यः प्रतिपततो वेदनीयस्योपशा
तमोहगुणस्थानकाच प्रतिपततो मोहनीयस्योदीरणा सादिः, तत्तत्स्थानमप्राप्तस्य पुनरनादिः, ध्रुवाध्रुवे पूर्ववत् । आयुषः पुनरुदीरणा सादिरध्रुवा च । तथाहि-आयुषः पर्यन्तावलिकायां नियमादुदीरणा न भवति ततोऽध्रुवा, परभवोत्पत्तिप्रथमसमय एव च भूयः प्रवर्तते ततःसादिरिति । तदेवं कृता मूलप्रकृतिषु साधनादिप्ररूपणा । अथोत्तरप्रकृतिपु तां विधित्सुराह-'दसुत्तर' इत्यादि, उत्तरासामप्युत्तरप्रकृतीनामपि, दशोत्तरशतसंख्यानां-ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयमिथ्यात्वतैजससप्तकवर्णादिविंशतिस्थिरास्थिरशुभाशुभागुरुलघुनिर्माणान्तरायपञ्चकरूपाप्टचत्वारिंशद्वर्जसर्वशेषप्रकृतीनामित्यर्थः, उदीरणा सादिरधुवा च, सा च साद्यध्रुवताऽध्रुवोदयत्वादेव सिद्धा ॥२॥
इदाणं उत्तरपगतीणं सादिअणादिपरूवणत्थं भणतिमिच्छत्तस्स चउद्धा तिहाय आवरणविग्घचउदसगे । थिरसुभसेयर उवघायवज्जधुवबंधिनामे य ॥३॥
PCOMITRA
ROHSINGS