SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥ १ ॥ _ ( मलय ० ) - तदेवमुक्ते उद्वर्तनापवर्तने । सम्प्रत्युद्देशक्रमेणोदीरणा वक्तव्या । तत्र चैतेऽर्थाधिकाराः । तद्यथा-लक्षणं, भेदः, साथनादिप्ररूपणा, स्वामित्वं, उदीरणाप्रकृतिस्थानानि, तत्स्वामित्वं चेति । तत्र प्रथमतो लक्षणभेदयोः प्ररूपणार्थमाह- 'जं'ति । अत्र पूर्वा| र्धेन लक्षणमभिहितमुत्तरार्धेन तु भेदः । तत्र यत्परमाण्वात्मकं दलिकं करणेन-योगसंज्ञकेन वीर्यविशेषेण कषायसहितेनासहितेन वा उदयावलिका बहिर्वर्तिनीभ्यः स्थितिभ्योऽपकृष्योदये दीयते - उदद्यावलिकायां प्रक्षिप्यते एषोदीरणा । उक्तं च-" उदयावलियबाहिरिल्लटिईर्हितो कसायसहिरणं असहिष्ण वा जोगसन्नेण करणेणं दलियमाकढिय उदयावलियाप पत्रेसणं उदीरणत्ति । सा च किंभूता ? इत्यत आह- 'प्रकृतिस्थित्यनुभागप्रदेशमूलोत्तरविभागा' । प्रकृतिस्थित्यनुभागप्रदेशैर्मूलप्रकृतिभिरुत्तरप्रकृतिभिश्च कृत्वा विभागो भेदो यस्याः सा तथा । इदमुक्तं भवति - सोदीरणा चतुर्विधा, तद्यथा-प्रकृत्युदीरणा, स्थित्युदीरणा, अनुभागोदीरणा, प्रदेशोदीरणा च । एकैकापि द्विधामूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयाऽष्टधा उत्तरप्रकृतिविषया चाष्टपञ्चाशदधिकशतभेदा ॥ १ ॥ (उ०)—तदेवमुक्ते उद्वर्तनापवर्तने, अथोद्देशक्रमागतोदीरणा वक्तव्या । तत्र चैतेऽर्थाधिकाराः-लक्षणं, भेदः, साद्यनादिप्ररूपणा, स्वामित्वं, उदीरणाप्रकृतिस्थानानि, तत्स्वामित्वं चेति । तत्रादौ लक्षणभेदप्ररूपणार्थमाह- अत्र पूर्वार्धन लक्षगमुत्तरार्धेन च भेदोऽभिधीयते । तत्र यत्परमाण्वात्मकं दलिकं करणेन-योगसंज्ञवीर्यविशेषेण कषायसहितेन वा तद्रहितेन वा उदयावलिकाबहिर्वर्तिनीभ्यः स्थितिभ्योऽपकृष्योदये दीयते उदयावलिकायां प्रक्षिप्यते एपोदीरणा । सा चतुर्विधा । तथाहि प्रकृत्युदीरणा, स्थित्युदीरणा, अनुभागोदीरणा, प्रदेशोदीरणा च । पुनरेकैका द्विविधा - मूलप्रकृतिविषयोत्तरप्रकृतिविषया च । तत्र मूलप्रकृतिविषयाऽष्टधा उत्तर प्रकृतिविषया चाष्टपञ्चाशदधिकशतभेदा तथा चाह - 'प्रकृतिस्थित्यनुभाग प्रदेशमूलोत्तरविभागा' प्रकृतिस्थित्यनुभागप्रदेशैर्मूलप्रकृत्युत्तर प्रकृतिभेदैश्व aharas प्रकृत्युदीरणा ॥ १ ॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy