________________
कर्मप्रकृतिः | ॥ १५६ ॥
यावद्वन्धस्तावदुद्वर्तना भवति, परतो न भवतीत्यर्थः । तथा सर्वत्र बन्धकरणकालेऽबन्धकाले वाऽपकर्षणा- अपवर्तना स्थितिरसानां-स्थित्यनुभागानां प्रवर्तते, एष कालनियमः, अथवा आबन्धादिति यावन्मात्रस्थितिबन्धस्तावन्मात्रस्य स्थितिसत्कर्मणः स्थित्युदर्तना| नुभागोद्वर्तना चोपजायते । उपरितनस्य कर्मणः स्थित्यनुभागोद्वर्तना न भवति । अपकर्षणा-अपवर्तना पुनः सर्वत्र बन्धप्रमाणादर्वाक् परतो वा स्थित्यनुभागयोः प्रवर्तते । तथा किट्टीकृतवर्जे कर्मदलि के उभयम् - उद्वर्तनापवर्तनारूपं भवति । किट्टीकृते त्वपवर्तनैव केवला, नोद्वर्तनेति । एष विषयनियमः ॥ १० ॥
।। इत्याचार्य श्रीमलयगिरिविरचितायां कर्मप्रकृतिटीकायामुहूर्त नापवर्तने समाप्ते ||
(उ०)–सम्प्रत्युद्वर्त्तनापवर्त्तनयोः कालनियमं चाह - आबन्धात् - बन्धं यावदुत्कर्षयति, याबद्बन्धस्तावदेवोद्वर्त्तना भवति न परतोऽपीत्यर्थः । तथा सर्वत्र बन्धकालेऽबन्धकाले वाऽपवर्त्तना स्थितिरसानां प्रवर्तते, कालनियमोऽयम् । यद्वा आबन्धादिति यावन्मात्रः स्थितिबन्धस्तावन्मात्रस्य स्थितिसत्कर्मणः स्थित्युद्वर्त्तनानुभागोद्वर्त्तना च भवति, उपरितनस्य तु न भवति । अपकर्षणा - अपवर्तना पुनः सर्वत्र बन्धप्रमाणादव परतो वा स्थित्यनुभागयोर्भवतीत्यर्थः । तथा किट्टीकृतवजें कर्मदलिके उभयम् - उद्वर्तनापवर्तनालक्षणं भवति, किट्टीकृतेषु तु कर्मस्वपवर्तनैव केवला प्रवर्तते नोद्वर्तनेति विषयनियमोऽयम् ॥ १० ॥
इत्युपाध्यायश्रीयशोविजयगणिविरचितायां कर्मप्रकृतिटीकायामुद्वर्त्तनापर्तने समाप्ते || इति उद्वर्त्तनापवर्त्तने समाप्ते ॥
उद्वर्तनाऽपवर्तना
करणे ।
||| १५६ ॥