________________
| तस्पर्धकन्यूनमतीत्थापना द्रष्टव्या। कण्डकमानं समयमात्रन्यूनत्वं च यथा पाक् स्थित्यपवर्तनायामुक्तं तथात्रापि द्रष्टव्यम् । अत्राल्पब-12 | हुत्वमुच्यते-सर्वस्तोको जघन्यनिक्षेपः। ततो जघन्यातित्यापनाऽनन्तगुणा । ततो व्याघातेऽतीत्थापनाऽनन्तगुणा । तत उत्कृष्टमनुभागकण्डकं विशेषाधिकम्, तस्य समयगतैः स्पर्धकैरतीत्थापनातोऽधिकत्वात् । तत उत्कृष्टो निक्षेपो विशेषाधिकः । ततोऽपि सर्वोऽ- नुभागो विशेषाधिकः ॥७॥ | (उ०)-तदेवमुक्ता स्थित्यपवर्तना, साम्प्रतमनुभागोद्वत्तनापवर्तने वाच्ये, तत्रादावनुभागोद्वर्तनामाह-चरम स्पर्धकं नोद्वय॑ते, | नापि द्विचरमादीनि, यावच्चरमात्स्पर्धकादधोऽनन्तानि स्पर्धकानि नोद्वय॑न्ते । यो जघन्यो निक्षेप आवलिकाया असङ्खयेयभागः सर्वो| परितनो या चावलिकामात्राऽतीत्थापना तत्स्थितिस्थानगतानि सर्वाण्यप्यनन्तानि स्पर्धकानि नोद्वय॑न्त इति रहस्यम् , किंतु तेभ्योऽव
टक्य-अधस्तादवतीर्य यानि स्पर्धकानि समयमात्रस्थितिगतानि लभ्यन्ते तान्युदर्तयति । तानि चोदावलिकामात्रस्थितिगतान्यनन्तानि | स्पर्धकान्यतिक्रम्योपरितनेष्वेवावलिकासत्कासङ्खयेयभागमात्रगतेषु स्पर्धकेषु निक्षिपति । ततोऽप्यधोऽवतीर्य यदा द्वितीयसमयमात्र|स्थितिगतानि स्पर्धकान्युर्त्तयति तदाऽऽवलिकामात्रस्थितिगतानि स्पर्धकान्यतिक्रम्योपरितनेषु समयाधिकावलिकासत्कासङ्ख्येयभाग| मात्रगतस्पर्धकेषु निक्षिपति । एवं यथा यथाऽधोऽवतीर्यते तथा तथा निक्षेपो वर्धमानः प्राप्यते । अतीत्थापना पुनः सर्वत्राप्यावलिकामा
त्रस्थितिगतान्येव स्पर्धकानि । कियान् पुनरुत्कृष्टो निक्षेपविषय इति चेत् , समयाधिकातित्थापनावलिकाऽवाधागतानि च मुक्त्वा शेषाणि | | स्पर्धकानि । तथाहि-अबाधागतानि स्पर्धकानि नोद्वय॑न्ते, उद्वर्त्यमानानि च समयमात्रस्थितिगतानि स्पर्धकानि न तत्रैव निक्षिप्य१७न्ते, आवलिकामात्रगतानि त्वतीत्थापना, तत एतदतिरिक्तानि सर्वाणि स्पर्धकान्युत्कृष्टनिक्षेपविषय इति । अत्रैवाल्पबहुत्वमुच्यते-सर्व