________________
ाग्मिथ्यात्वं च यावत्तथाभन्यत्वपरिपाकं नायाति तावन्न भवति, तथाभव्यत्वपरिपाकेन प्राप्तं वा सन्मिथ्यात्वगतेन भूयोऽप्युद्वल्यते,
अभव्यानां च तत्सर्वथा न भवतीत्यध्रुवसत्ताकम् । तीर्थकरनाम विशद्धसम्यक्त्वे सति भवति, नान्यदा । आहारकद्विकमपि तथावि-IA धसंयमे सति बन्धमायाति, न तदभावे, बद्धमपि च तदविरतिप्रत्ययत उद्वल्यते । मनुष्यद्विकमपि तेजोभवं वायुभवं वा गतेनोबल्यते । का तथा देवनारकायुषी स्थावराणां, तिर्यगायुकं वहमिन्द्राणां, मनुष्यायुष्कं च तेजोवायुसप्तमपृथिवीनारकाणां सर्वथा बन्धाभावात्स
| त्तायां न लभ्यते, अन्येषां तु संभवत्यपीति तीर्थकरनामादीनामध्रुवसत्ताकता । नन्वेता आयुश्चतुष्टयतीर्थकरनामवर्जा अनन्तानुबन्धि-| Yसहिताः सप्तदश श्रेण्यारोहाभावेऽप्युद्वलनयोग्या अभिहिताः, तथा चानन्तानुबन्धिनामप्युद्वलनासंभवात्कथं ध्रुवसत्कर्मतेति चेन्मैवं | वादीः, सम्यक्त्वादिगुणानवाप्तौ कदाचिद्भावित्वस्यैवाध्रुवसत्कर्मलक्षणत्वाद , उत्तरगुणप्राप्तौ सत्तोपरमादध्रुवसत्ताकत्वोक्तौ तु सर्वा | अपि प्रकृतयस्तथाभवेयुरित्युक्तलक्षणस्यैव युक्तत्वात् सम्यक्त्वगुणेनोद्वल्यमानानामप्यनन्तानुबन्धिनां तदनवाप्तौ कादाचित्कत्वा- 1) भावेन ध्रुवसत्ताकत्वानपायात् ।
स्वविषयं कात्स्न्येन नन्ति यास्ताः सर्वघातिन्यः, ताश्च केवलज्ञानावरणमाद्यद्वादशकपाया मिथ्यात्वं निद्राश्च पञ्चेति विंशतिः । KI एता हि प्रकृतयो यथायोगमात्मघात्यं गुणं सम्यक्त्वं ज्ञानं दर्शनं चारित्रं वा सर्वात्मना घातयन्तीति । उक्तशेषा घातिकर्म
प्रकृतयः पञ्चविंशतिर्देशघातिन्यः, तासां ज्ञानादिगुणैकदेशविघातित्वात । इयमत्र भावना-इह यद्यपि केवलज्ञानावरणीयं कर्म ज्ञानA लक्षणं गुणं सर्वात्मना हन्तुं प्रवर्तते तथापि न तत्तेन समूलं हन्तुं शक्यते तथास्वभावत्वात् , यथा महीयसापि धनपटलेन रविचन्द्र
१ उपलक्षणादानतादिदेवानामपि ।