________________
कर्मप्रकृतिः तस्याध्रुवोदयत्वपरिभाषणात् । यद्येकगुणस्थानावच्छेदेनोदयभावाभावप्रतियोगित्वमध्रुवोदयत्वं परिभाष्येत तदैव हि स दोषः स्यात् । बन्धनकरणे
विशिष्टगुणप्राप्ति विना ध्रुवा निरन्तरा सत्ता यासां ता ध्रुवसत्ताकाः, ताश्च त्रसविंशतिवर्णादिविंशतिस्तैजसकार्मणतेजसतैजसबन्धमा ॥१०॥
नतैजसकार्मणबन्धनकार्मणकार्मणबन्धनतैजससंघातनकार्मणसंघातनरूपं तैजसकार्मणसप्तकं वर्णचतुष्कतैजसकार्मणानामुक्तत्वाच्छेषा एक-15 IS) चत्वारिंशद् ध्रुवबन्धिन्यो वेदत्रिक संस्थानषद्कं संहननषद्कं जातिपञ्चकं सातासातवेदनीयं हास्यरत्यरतिशोकरूपं युगलद्वयमौदा
| रिकाङ्गौदारिकाङ्गोपाङ्गौदारिकसंघातनौदारिकौदारिकबन्धनौदारिकतैजसबन्धनौदारिककार्मणबन्धनौदारिकतैजसकार्मणबन्धनरूपमौदा| रिकसप्तकं उच्छासोद्योतातपपराघातचतुष्कं विहायोगतिद्विक तिर्यग्द्विकं नीचर्गोत्रं चेति त्रिंशं शतम् । एता हि सम्यक्त्वलाभादक | सर्वजन्तूनां सदैव संभवन्तीति।
कदाचिद्भवन्ति कदाचिन्न भवन्तीत्येवमनियता सत्ता यासांता अध्रुवसत्ताकाः, ताश्च उच्चर्गोत्रं तीर्थकरनाम सम्यक्त्वं सम्यग्मिथ्यात्वं | देवगतिदेवानुपूर्वी नरकगतिनरकानुपूर्वी वैक्रियशरीरवैक्रियाङ्गोपाङ्गलक्षणं वैक्रियपदक चत्वार्यायूंषि मनुजगतिमनुष्यानुपूर्वीलक्षणं मनुजद्विक आहारकशरीराहारकाङ्गोपाङ्गलक्षणमाहारकद्विकं चेत्यष्टादश। तथाहि-उच्चर्गोत्रं वैक्रियपदक चेत्येताः सप्त त्रसत्वाप्राप्तौ न भवन्ति, | तत्प्राप्तौ च भवन्ति । यद्वा त्रसत्वावस्थायां लब्धा अपि स्थावरभावं गतेनावस्थाविशेषं प्राप्योंद्वल्यन्त इत्यध्रुवसत्ताकाः सम्यक्त्वं सम्य-17
१ पञ्चसंग्रहतृतीयद्वारे त्रयस्त्रिंशद्गाथाचतुर्थपादे "अट्ठारस अधुवसत्ताओ" एतदनुसारेणात्रा-वसत्तायामष्टादश गृहीता । मूलवृत्ती | "चतुरुत्तरशतं ध्रुवसत्कर्म" इति प्रोक्तं, अत्र बन्धनसंघातनसत्वेऽपि विवक्षा न कृता । मलयगिरिवृत्तौ तु गर्गर्षिमतानुसारेण "विंशदुत्तरशतसंख्याकाः प्रकृतयो ध्वसत्ताकाः" कथिताः । एतदनुसत्यात्र त्रिशं शतं ध्रुवसत्तात्वेन प्रोक्तं विज्ञायते । २ येन जीवेनैकेन्द्रियत्वे बद्धमपि सदुद्वलितं त्रसत्वं गतेन बद्धं तदपेक्ष्य शेयम् ।
॥१०॥