________________
एव तद्बन्धात्, आतपनाम्नोऽप्येकेन्द्रियमायोग्यप्रकृतिबन्ध एव बन्धात्, उद्योतस्यापि तिर्यग्गतिप्रायोग्य प्रकृतिबन्ध एव बन्धात्, जिन| नाम्न आहारकद्विकस्य च सम्यक्त्वे संयमे च निजबन्धहेतौ विद्यमानेऽपि कदाचिदेव बन्धात् शेषाणां च औदारिकद्विकादीनां स| विपक्षत्वादेव । यद्यपि यत्किञ्चिद्वन्धहेतुसत्त्वे बन्धाभावोऽतिप्रसक्तो यावद्भन्धहेतुसत्त्वे बन्धाभावश्वासंभवी, तथापि मिथ्यात्वादिपरिगणितसामान्यबन्धहेतुमत्त्वेऽवश्यं बन्धेन ध्रुवबन्धित्वं वैपरीत्ये चाध्रुवबन्धित्वमिति परिभाषारहस्यम् ।
उदयकालव्यवच्छेदादर्वाग्भ्रुवो निरन्तर उदयो यासां ता ध्रुवोदयास्ताश्च निर्माणस्थिरास्थिरतैजसकार्मणवर्णादिचतुष्कागुरुलघुशुभाशुभरूपा नामकर्मणो द्वादश, ज्ञानावरणान्तरायदशकं दर्शनावरणचतुष्टयं मिथ्यात्वं चेति घातिप्रकृतयः पञ्चदशेति सर्वसङ्ख्यया सप्तविंशतिः । तत्र मिध्यात्वं मिध्यादृष्टिगुणस्थानं यावत् ध्रुवोदयं, शेषा घातिप्रकृतयः क्षीणमोहचरमसमयं यावत्, नामप्रकृतयश्च द्वादश सयोगिकेवलिचरमसमयं यावत् ।
व्यवच्छिन्नोदया अपि सत्यो याः प्रकृतयो हेतुसंपच्या भूयोऽप्युदयमायान्ति ता अध्रुवोदयाः, ताश्च स्थिरास्थिरशुभाशुभरहिता अध्रुवबन्धिन्यः ६९, मिध्यात्वं विना च मोहनीयध्रुवबन्धिन्यः १८, निद्राः ५, उपघातनाम, मिश्र, सम्यक्त्वं चेति पञ्चनवतिः । नन्वेवं मिथ्यात्वमपि किं नाध्रुवोदयं १, सम्यक्त्वलामे व्युच्छिमस्यापि तदुदयस्य मिध्यात्वगमने पुनः संभवात् उच्यते- यासां प्र| कृतीनां गुणप्रत्ययादुदयव्युच्छेदो येषु गुणस्थानेषु नास्ति द्रव्यक्षेत्राद्यपेक्षया तेष्वेव कदाचिदसौ भवति कदाचिच्च न ता अधुबोदयाः, यथा क्षीणमोहं यावदविच्छिन्नोदया अपि निद्राः कादाचित्कोदया मिध्यात्वं तु स्वोदयाविच्छेदं यावत्सततोदयमेवेति नाभ्रुवोदयम् । नन्वेवं मिश्रमपि मिश्रगुणस्थाने सततोदयमिति ध्रुवोदयं स्यात्, न, गुणप्रत्ययोदयविच्छेदात् प्रागुदयभावाभावाभ्यां