SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ वन्धनकरणे मालादि० कर्मप्रकृतिः । व्यवच्छिद्यमानबन्धोदयसान्तरबन्धसान्तरनिरन्तरबन्धनिरन्तरबन्धोदयसंक्रमोत्कृष्टानुदयसङ्कमोत्कृष्टोदयबन्धोत्कृष्टानुदयबन्धोत्कृष्टो॥९॥ दयवत्यनुदयवतीसंज्ञाभिश्च(३१)यो विशेषः स विभाव्यते तत्र निजहेतुसंभवे यासामवश्यंभावी बन्धस्ता ध्रुवबन्धिन्यः, ताश्च ज्ञानावरणपञ्चकमन्तरायपश्चक दर्शनावरणनवकं पोडश कषाया मिथ्यात्वभयजुगुप्सा इत्यष्टात्रिंशद् घातिप्रकृतयोऽगुरुलघु उपघातं निर्माणं तैजसं वर्णादिचतुष्कं कार्मणं चेति नव नामप्रकृतय इति सर्वसङ्ख्यया सप्तचत्वारिंशत् । एतासां ह्याबन्धकालव्यवच्छेदाभ्रुवो बन्धः। तत्र मिथ्यात्वं मिथ्यादृष्टिगुणस्थानं यावत् निरन्तरं बध्यते, परतस्तूदयाभावान्न तद्वन्धः, तद्धि यावद्वद्यते तावदेव बध्यते "जे वेयइ से वज्झइ ति" वचनात् । अनन्तानुबन्धिचतुष्टयं स्त्यानचित्रिकं च सासादनं यावत , परतोऽनन्तानुबन्ध्यनुदयेन तद्वन्धाभावात् । एवमप्रत्याख्याना अविरतसम्यग्दृष्टिं यावत् । प्रत्याख्यानावरणा देशविरतिं यावत् । निद्राप्रचले अपूर्वकरणप्रथमभागं यावत , परतस्तद्वन्धयोग्याध्यवसायाभावात् । एवं नवनामध्वन्धिन्योऽपूर्वकरण(षष्ठभागं यावत , भयजुगुप्से च)चरमसमयं यावत । संज्वलनक्रोधमानमायालोमा अनिवृत्तिबादरं यावत, परतो बादरकषायोदयाभावेन तद्वन्धासंभवात । ज्ञानावरणपश्चकान्तरायपश्चकदर्शनावरणचतुष्कानि सूक्ष्मसम्परायं यावत्, परतः कषा| योदयाभावेन तद्वन्धायोगात् । निजबन्धहेतुसंभवेऽपि भजनीयबन्धा अधूववन्धिन्यः, ताश्चोक्तशेषा औदारिकवैक्रियाहारकविहायोगतिगोत्रवेदनीययुगलद्विकवेदत्रिकायुर्गत्यानुपूर्वीचतुष्टयजातिपञ्चकसंस्थानसंहननषदकत्रसादिविंशत्युच्छासतीर्थकरातपोद्योतपराघातरूपास्त्रिसप्ततिः, एता हि स्व बन्धहेतुसाम्राज्येऽपि नावश्यं बन्धमायान्ति । पराघातोच्छासनाम्नोरविरत्यादिस्वहेतसत्वेऽप्यपर्याप्तनामकोले बन्धाभावात्पर्याप्तनामबन्ध १ अपर्याप्तप्रायोग्यबन्धकाले. २ पर्याप्तप्रायोग्यबन्धकाले. ORROWOKAR IRI ॥९॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy